Categories
Stothra Parayanam Audio

கிருஷ்ண அஷ்டோத்தர ஸ்தோத்ரம் ஒலிப்பதிவு (krishna ashtotharam stothram audio)

1. கிருஷ்ண அஷ்டோத்தர ஸ்தோத்ர மகிமை

2. கிருஷ்ண அஷ்டோத்தர ஸ்தோத்ரம் ஒலிப்பதிவு

श्रीगणेशाय नमः ।

ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य श्रीशेष ऋषिः,

अनुष्टुप्-छन्दः, श्रीकृष्णो देवता, श्रीकृष्णप्रीत्यर्थे

श्रीकृष्णाष्टोत्तरशतनामजपे विनियोगः ।

श्रीशेष उवाच ।

ॐ श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ।

वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ १॥

श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ।

चतुर्भुजात्तचक्रासि-गदाशङ्खाद्युदायुधः ॥ २॥

देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ।

यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३॥

पूतनाजीवितहरः शकटासुरभञ्जनः ।

नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥ ४॥

नवनीतविलिप्ताङ्ग: नवनीतनट: अनघ: ।

नवनीतनवाहारी मुचुकुन्दप्रसादकः ।

षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः ॥ ५॥

शुकवागमृताब्धीन्दुर्गोविन्दो योगिनांपति:।

वत्सवाटचर: अनन्त: धेनुकासुरभञ्जनः ॥ ६॥

तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ।

उत्तालतालभेत्ता च तमालश्यामलाकृतिः ॥ ७॥

गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः ।

इलापतिः परंज्योतिर्यादवेन्द्रो यदूद्वहः ॥ ८॥

वनमाली पीतवासाः पारिजातापहारकः ।

गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ॥ ९॥

अजो निरञ्जनः कामजनकः कञ्जलोचनः ।

मधुहा मधुरानाथो द्वारकानायको बली ॥ १०॥

बृन्दावनान्तसञ्चारी तुलसीदामभूषणः ।

स्यमन्तकमणेर्हर्ता नरनारायणात्मकः ॥ ११॥

कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः ।

मुष्टिकासुरचाणूर-मल्लयुद्ध-विशारदः॥ १२॥

संसारवैरी कंसारिर्मुरारिर्नरकान्तकः ।

अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ १३॥

शिशुपालशिरच्छेत्ता दुर्योधनकुलान्तक:।

विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥ १४॥

सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी ।

सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥ १५॥

जगद्गुरुर्जगन्नाथो वेणुनादविशारदः |

वृषभासुरविध्वंसी बाणासुरकरान्तक:॥ १६॥

युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ।

पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ १७॥

कालीयफणमाणिक्य-रञ्जितश्रीपदाम्बुजः।

दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशकः॥ १८॥

नारायणः परम्ब्रह्मा पन्नगाशनवाहनः ।

जलक्रीडासमासक्तगोपीवस्त्रापहारकः ॥ १९॥

पुण्यश्लोक: तीर्थपाद: वेदवेद्यो दयानिधिः ।

सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः ॥ २०॥

एवंश्री कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ।

कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥ २१॥

स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया पुरा ।

कृष्णनामामृतं नाम परमानन्ददायकम् ॥ २२॥

अत्युपद्रव दुःखघ्नं परमायुष्यवर्धनम्

दानं श्रुतं तपस्तीर्थं यत्कृतं द्विज जन्मनि ॥ २३॥

पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत् ।

पुत्रप्रदमपुत्राणामगतीनां गतिप्रदम् ॥ २४॥

धनावहं दरिद्राणां जयेच्छूनां जयावहम् ।

शिशूनां गोकुलानां च पुष्टिदं पुष्टिवर्धनम् ॥ २५॥

वातग्रहज्वरादीनां शमनं शान्तिमुक्तिदम् ।

समस्तकामदं सद्यः कोटिजन्माघनाशनम् ॥ २६॥

अन्ते कृष्णस्मरणदं भवतापभयापहम् ।

कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने ।

नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने ॥ २७॥

इमं मन्त्रं महादेव: जपन्नेव दिवानिशम् ।

सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत् ॥ २८॥

पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् ।

निर्विश्य भोगानन्तेऽपि कृष्णसायुज्यमाप्युनात् ॥ २९॥

॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे उमामहेश्वर संवादे धरणिसेष संवादे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.