Categories
Stothra Parayanam Audio

சிவன் சார் ஆராதனையன்று சிவாபராத க்ஷமாபண ஸ்தோத்ரம்; shivaparadha kshamapana stothram audio mp3


இன்னிக்கு சிவன் சாரோட ஆராதனை. சிவன் சாரோட ‘ஏணிப்படிகளில் மாந்தர்கள்’ புஸ்தகத்தை படிச்சா, முதலில் “நான் ரொம்ப உத்தமன், பக்திமான், விவேகி” என்ற எண்ணங்கள் இருந்தால் அது அடியோட போயிடும். எதோ ஒரு கோவிலுக்கு போறோம், ஒரு தான தர்மம் பண்றோம், வேதாந்தம் படிக்கறோம், பஜனை பண்றோம் அதனால நாம உசத்தி, English ல Holier than thou attitude னு சொல்லுவா, அது காணாமல் போயிடும். நம்ம நிலையை புரிஞ்சுப்போம்.

அதே நேரத்துல நம்ம தப்புகளை உணர்ந்து, சார் சொல்றது போல நேர்மையாக, பணிவோடு இருக்கணும், மஹான்கள் கிட்ட பக்தி ஏற்பட்டு அது மூலமாக பகவானை அடைய வேண்டும் என்று பிரார்த்தித்தால், சிவன் சார் போல ஆசுதோஷி, அனுக்ரஹம் பண்ற தெய்வம் கிடையாது. இப்படி நம் குறைகளைச் சொல்லி பிரார்த்தனை பண்ணுவதற்காகவே ஆதி ஆசார்யாள் ஒரு ஸ்தோத்ரம் பண்ணி இருக்கார். அந்த சிவாபராத க்ஷமாபண ஸ்தோத்ரத்தை, சிவன் சார் பாதங்களில், அவருடைய ஆராதனை தினத்தில்,  சொல்லி வேண்டிப்போம்.

https://soundcloud.com/ganapathy-subramanian-sundaram/shivaaparaadha-kshamaapana-stothram

आदौ कर्मप्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः ।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ १ ॥

बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासुः
नो शक्तश्चेन्द्रियेभ्यो भवमलजनिताः जन्तवो मां तुदन्ति ।
नानारोगादिदुःखाद्रुदनपरवशः शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ २ ॥

प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसन्धौ
दष्टो नष्टो विवेकः सुतधनयुवतिस्वादुसौख्ये निषण्णः ।
शैवे चिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ३ ॥

वार्धक्ये चेन्द्रियाणां विकलगतिमतिश्चाधिदैवादितापैः
पाप्तैर्रोगैर्वियोगैः व्यसनकृशतनो: ज्ञाप्तिहीनं च दीनम् ।
मिथ्यामोहाभिलाषैर्भ्रमति मम मनः धूर्जटेर्ध्यानशून्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ४ ॥

स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं
पूजार्थं वा कदाचिद्बहुतरगहने अखण्डबिल्वीदलानि ।
नानीता पद्ममाला सरसि विकसिता गन्धपुष्पैः त्वदर्थं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ५ ॥

दुग्धैर्मध्वाज्ययुक्तैर्दधिगुडसहितैः स्नापितं नैव लिङ्गं
नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ।
धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ६ ॥

नो शक्यं स्मार्तकर्म प्रतिपदगहने प्रत्यवायाकुलाड्ये
श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गानुसारे ।
तत्वे ज्ञाते विचारे श्रवणमननयोः किं निदिध्यासितव्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ७ ॥

ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो
हव्यं ते लक्षसङ्ख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः ।
नो तप्तं गाङ्गतीरे व्रतजपनियमैः रुद्रजाप्यम् न जप्तम्
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ८ ॥

नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो
नासाग्र न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् ।
उन्मन्याऽवस्थया त्वां विगतगतिमतिः शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ९ ॥

स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुम्भिते सूक्ष्ममार्गे
शान्ते स्वान्ते प्रलीने प्रकटितविभवे दिव्यरूपे शिवाख्ये ।
लिङ्गाग्रे ब्रह्मवाक्ये सकलतनुगतं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ १० ॥

हृद्यं वेदान्तवेद्यं हृदयसरसिजे दीप्तमुद्यत्प्रकाशं
सत्यं शान्तस्वरूपं सकलमुनिमनःपद्मषण्डैकवेद्यम् ।
जाग्रत्स्वप्ने सुषुप्तौ त्रिगुणविरहितं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो ॥ ११॥

चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे
सर्पैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे । दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे
मोक्षार्थं कुरु चित्तवृत्तिमचलामन्यैस्तु किं कर्मभिः ॥ १२॥

किं यानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम् ॥ १३॥

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
तस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥ १४ ॥

वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥१५ ॥

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत्क्ष्मस्व
शिव शिव करुणाब्धे श्रीमहादेव शम्भो ॥ १६ ॥

॥ इति श्रीमद् शङ्कराचार्यकृत शिवापराधक्षमापणस्तोत्रं सम्पूर्णम् ॥

நம: பார்வதீ பதயே…ஹர ஹர மஹாதேவா…

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.