சிவானந்தலஹரி 68 முதல் 100 ஸ்லோகங்கள் ஒலிப்பதிவு अमितमुदमृतं मुहुर्दुहन्तीं, विमलभवत्पदगोष्ठमावसन्तीम् । सदय पशुपते, सुपुण्यपाकां, मम परिपालय, भक्तिधेनुमेकाम् ॥ ६८॥ जडता पशुता कलङ्किता, कुटिलचरत्वं च, नास्ति मयि देव । अस्ति यदि राजमौले, भवदाभरणस्य, नास्मि किं पात्रम् ॥ ६९॥ अरहसि रहसि स्वतन्त्रबुद्ध्या, वरिवसितुं सुलभः, प्रसन्नमूर्तिः । अगणितफलदायकः प्रभुर्मे, जगदधिको हृदि, राजशेखरोऽस्ति ॥ ७०॥ आरूढभक्तिगुणकुञ्चितभावचापयुक्तैः, शिवस्मरणबाणगणैरमोघैः […]