Categories
Stothra Parayanam Audio shivanandalahari

சிவானந்தலஹரி 68 முதல் 100 ஸ்லோகங்கள் ஒலிப்பதிவு


சிவானந்தலஹரி 68 முதல் 100 ஸ்லோகங்கள் ஒலிப்பதிவு

अमितमुदमृतं मुहुर्दुहन्तीं, विमलभवत्पदगोष्ठमावसन्तीम् ।

सदय पशुपते, सुपुण्यपाकां, मम परिपालय, भक्तिधेनुमेकाम् ॥ ६८॥

 

जडता पशुता कलङ्किता, कुटिलचरत्वं च, नास्ति मयि देव ।

अस्ति यदि राजमौले, भवदाभरणस्य, नास्मि किं पात्रम् ॥ ६९॥

 

अरहसि रहसि स्वतन्त्रबुद्ध्या, वरिवसितुं सुलभः, प्रसन्नमूर्तिः ।

अगणितफलदायकः प्रभुर्मे, जगदधिको हृदि, राजशेखरोऽस्ति ॥ ७०॥

 

आरूढभक्तिगुणकुञ्चितभावचापयुक्तैः, शिवस्मरणबाणगणैरमोघैः ।

निर्जित्य किल्बिषरिपून्, विजयी सुधीन्द्रः, सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥ ७१॥

 

ध्यानाञ्जनेन समवेक्ष्य, तमःप्रदेशं भित्वा, महाबलिभि: ईश्वरनाममन्त्रैः ।

दिव्याश्रितं, भुजगभूषणं, उद्वहन्ति ये, पादपद्ममिह ते, शिव, ते कृतार्थाः ॥ ७२॥

 

भूदारतां उदवहत्, यदपेक्षया, श्रीभूदार एव, किमतः, सुमते लभस्व ।

केदारं आकलितमुक्तिमहौषधीनां, पादारविन्दभजनं परमेश्वरस्य । ७३॥

 

आशापाशक्लेश-दुर्वासनादि भेदोद्युक्तै:, दिव्यगन्धैरमन्दैः ।

आशाशाटीकस्य पादारविन्दं, चेतःपेटीं वासितां मे तनोतु ॥ ७४॥

 

कल्याणिनं, सरसचित्रगतिं, सवेगं, सर्वेङ्गितज्ञं, अनघं, ध्रुवलक्षणाढ्यम् ।

चेतस्तुरङ्गमधिरुह्य चर, स्मरारे, नेतः, समस्तजगतां वृषभाधिरूढ ॥ ७५॥

 

भक्ति:, महेशपदपुष्करमावसन्ती, कादम्बिनीव कुरुते परितोषवर्षम् ।

सम्पूरितो भवति, यस्य मनस्त्तटाक:, तज्जन्मसस्यमखिलं सफलं च नाऽन्यत् ॥ ७६॥

 

बुद्धिःस्थिरा भवितुं, ईश्वरपादपद्मसक्ता, वधू: विरहिणीव, सदा स्मरन्ती ।

सद्भावनास्मरणदर्शनकीर्तनादि, सम्मोहितेव, शिवमन्त्रजपेन विन्ते ॥ ७७॥

 

सदुपचारविधिषु अनुबोधितां, सविनयां, सुहृदं, सदुपाश्रिताम् ।

मम समुद्धर बुद्धिमिमां, प्रभो, वरगुणेन नवोढवधूमिव ॥ ७८॥

 

नित्यं, योगिमनः सरोजदलसञ्चारक्षम:, त्वत्क्रमः,

शम्भो, तेन कथं, कठोरयमराड्वक्षःकवाटक्षतिः ।

अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं, हा मे मनश्चिन्तयति,

एतत् लोचनगोचरं कुरु, विभो, हस्तेन संवाहये ॥ ७९॥

 

एष्यत्येष जनिं, मनोऽस्य कठिनं, तस्मिन्नटानि इति,

मद्रक्षायै, गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः ।

नोचेत् दिव्यगृहान्तरेषु, सुमनस्तल्पेषु, वेद्यादिषु,

प्रायः सत्सु, शिलातलेषु नटनं, शम्भो किमर्थं तव ॥ ८०॥

 

कञ्चित्कालमुमामहेश, भवतः पादारविन्दार्चनैः,

कञ्चिद्ध्यानसमाधिभिश्च नतिभिः, कञ्चित्कथाकर्णनैः ।

कञ्चित् कञ्चिदवेक्षनैश्च, नुतिभिः, कञ्चिद्दशामीदृशीं,

यः प्राप्नोति, मुदा त्वदर्पितमना:, जीवन् स मुक्तः खलु ॥ ८१ ॥

 

बाणत्वं, वृषभत्वं, अर्धवपुषा भार्यात्वं, आर्यापते,

घोणित्वं, सखिता, मृदङ्गवहता च, इत्यादि रूपं दधौ ।

त्वत्पादे नयनार्पणं च कृतवान्, त्वद्देहभागो हरिः,

पूज्यात्पूज्यतरः, स एव हि, न चेत्, को वा तदान्योऽधिकः ॥ ८२॥

 

जननमृतियुतानां, सेवया देवतानां, न भवति सुखलेशः, संशयो नास्ति तत्र ।

अजनिममृतरूपं, साम्बमीशं भजन्ते, य इह, परमसौख्यं ते हि धन्या: लभन्ते ॥ ८३॥

 

शिव, तव परिचर्या,सन्निधानाय गौर्या, भव, मम गुणधुर्यां, बुद्धिकन्यां प्रदास्ये ।

सकलभुवनबन्धो, सच्चिदानन्दसिन्धो, सदय, हृदयगेहे, सर्वदा संवस त्वम् ॥ ८४ ॥

 

जलधिमथनदक्ष: नैव, पातालभेदी न च, वनमृगयायां नैव लुब्धः प्रवीणः ।

अशनकुसुमभूषावस्त्रमुख्यां सपर्यां, कथय, कथमहं ते कल्पयानि, इन्दुमौले ॥ ८५॥

 

पूजाद्रव्यसमृद्धयो विरचिताः, पूजां कथं कुर्महे,

पक्षित्वं न च वा, किटित्वमपि न प्राप्तं, मया दुर्लभम् ।

जाने मस्तकमङ्घ्रिपल्लवं, उमाजाने, न तेऽहं, विभो,

न ज्ञातं हि, पितामहेन हरिणा, तत्वेन तद्रूपिणा ॥ ८६॥

 

अशनं गरलं, फणी कलाप:, वसनं चर्म च, वाहनं महोक्षः ।

मम दास्यसि किं, किमस्ति शम्भो, तव पादाम्बुजभक्तिमेव देहि ॥ ८७॥

 

यदा कृताम्भोनिधिसेतुबन्धनः, करस्थलाधः, कृतपर्वताधिपः ।

भवानि ते, लङ्घितपद्मसम्भवः, तदा शिव, अर्चास्तवभावनक्षमः ॥ ८८॥

 

नतिभिर्नुतिभि:, त्वमीश, पूजा-विधिभिर्ध्यानसमाधिभि:, न तुष्टः ।

धनुषा मुसलेन चाश्मभिर्वा, वद ते प्रीतिकरं, तथा करोमि ॥ ८९॥

 

वचसा चरितं वदामि शम्भो:, अहमुद्योगविधासु, ते, अप्रसक्तः ।

मनसाकृतिमीश्वरस्य सेवे, शिरसा चैव सदाशिवं नमामि ॥ ९०॥

 

आद्याऽविद्या हृद्गता निर्गतासीत्, विद्या हृद्या हृद्गता त्वत्प्रसादात् ।

सेवे नित्यं, श्रीकरं त्वत्पदाब्जं, भावे, मुक्तेर्भाजनं, राजमौले ॥ ९१॥

 

दूरीकृतानि, दुरितानि दुरक्षराणि, दौर्भाग्यदुःख-दुरहङ्कृतिदुर्वचांसि ।

सारं त्वदीयचरितं, नितरां पिबन्तं, गौरीश, मामिह समुद्धर सत्कटाक्षैः ॥ ९२ ॥

 

सोमकलाधरमौलौ, कोमलघनकन्धरे, महामहसि ।

स्वामिनि, गिरिजानाथे, मामकहृदयं निरन्तरं रमताम् ॥ ९३ ॥

 

सा रसना, ते नयने, तावेव करौ, स एव कृतकृत्यः ।

या ये यौ यो, भर्गं, वदति ईक्षेते सदार्चतः स्मरति ॥ ९४॥

 

अतिमृदुलौ मम चरणौ, अतिकठिनं ते मन:, भवानीश ।

इति विचिकित्सां सन्त्यज, शिव, कथमासीत्, गिरौ तथा प्रवेशः ॥ ९५॥

 

धैर्याङ्कुशेन निभृतं, रभसादाकृष्य भक्तिशृङ्खलया ।

पुरहर चरणालाने, हृदयमदेभं, बधान चिद्यन्त्रैः ॥ ९६॥

 

प्रचरत्यभितः प्रगल्भवृत्त्या, मदवानेष मनः करी गरीयान् ।

परिगृह्य नयेन, भक्तिरज्ज्वा, परम, स्थाणुपदं दृढं नयामुम् ॥ ९७॥

 

सर्वालङ्कारयुक्तां, सरलपदयुतां साधुवृत्तां सुवर्णां,

सद्भिःसंस्तूयमानां, सरसगुणयुतां, लक्षितां लक्षणाढ्याम् ।

उद्यद्भूषाविशेषां, उपगतविनयां द्योतमानार्थरेखां,

कल्याणीं, देव, गौरीप्रिय, मम कविताकन्यकां त्वं गृहाण ॥ ९८॥

 

इदं ते युक्तं वा, परमशिव, कारुण्यजलधे,

गतौ तिर्यग्रूपं, तव पदशिरोदर्शनधिया ।

हरिब्रह्माणौ तौ, दिवि भुवि चरन्तौ श्रमयुतौ,

कथं शम्भो स्वामिन्, कथय, मम वेद्योऽसि पुरतः ॥ ९९॥

 

स्तोत्रेणालमहं, प्रवच्मि न मृषा, देवा: विरिञ्चादय:

स्तुत्यानां गणनाप्रसङ्गसमये, त्वामग्रगण्यं विदुः ।

माहात्म्याग्रविचारणप्रकरणे, धानातुषस्तोमवत्

धूता:, त्वां विदुरुत्तमोत्तमफलं, शम्भो, भवत्सेवकाः ॥ १००॥

சிவானந்த லஹரி 1 முதல் 100 ஸ்லோகங்கள் சம்ஸ்க்ருத எழுத்தில்

சிவானந்த லஹரி 1 முதல் 100 ஸ்லோகங்கள் தமிழ் எழுத்தில்

Series Navigation<< சிவானந்தலஹரி 35 முதல் 67 ஸ்லோகங்கள் ஒலிப்பதிவு

One reply on “சிவானந்தலஹரி 68 முதல் 100 ஸ்லோகங்கள் ஒலிப்பதிவு”

Many thanks for your time, efforts,Service and guidance to learners like me with no Sanskrit wisdom.
Regards

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.