Categories
Narayaneeyam

நாராயணீயம் நாற்பத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 45th Dashakam audio mp3


நாராயணீயம் நாற்பத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 45th Dashakam audio mp3

Have given the 45th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये पञ्चचत्वारिंशं दशकम्

अयि सबल मुरारे, पाणिजानुप्रचारै:,

किमपि, भवनभागान्, भूषयन्तौ भवन्तौ ।

चलितचरणकञ्जौ, मञ्जुमञ्जीर,शिञ्जा

श्रवणकुतुकभाजौ, चेरतु: चारुवेगात् ॥ १ ॥

 

मृदु मृदु विहसन्तौ, उन्मिषद्दन्तवन्तौ,

वदनपतितकेशौ, दृश्यपादाब्जदेशौ ।

भुजगलितकरान्त,व्यालगत्कङ्कणाङ्कौ,

मतिं अहरतं उच्चै:, पश्यतां, विश्वनॄणाम् ॥ २ ॥

 

अनुसरति जनौघे, कौतुकव्याकुलाक्षे,

किमपि कृतनिनादं, व्याहसन्तौ, द्रवन्तौ ।

वलितवदनपद्मं, पृष्ठतो दत्तदृष्टी,

किमिव, न विदधाथे, कौतुकं वासुदेव ॥ ३ ॥

 

द्रुतगतिषु पतन्तौ, उत्थितौ लिप्तपङ्कौ,

दिवि, मुनिभि:, अपङ्कै:, सस्मितं वन्द्यमानौ ।

द्रुतमथ, जननीभ्यां, सानुकम्पं गृहीतौ,

मुहुरपि परिरब्धौ, द्राग्युवां चुम्बितौ च ॥ ४ ॥

 

स्नुतकुचभरं, अङ्के धारयन्ती, भवन्तं,

तरलमति, यशोदा, स्तन्यदा धन्यधन्या ।

कपटपशुप, मध्ये मुग्धहासाङ्कुरं ते,

दशनमुकुलहृद्यं, वीक्ष्य वक्त्रं जहर्ष ॥ ५ ॥

 

तदनुचरणचारी दारकैस्साकं, आरान्-

निलयततिषु, खेलन्, बालचापल्य,शाली ।

भवनशुकबिडालान्, वत्सकांश्चानुधावन्,

कथमपि, कृतहासै: गोपकै:, वारितोऽभू: ॥ ६ ॥

 

हलधरसहितस्त्वं, यत्र यत्रोपयात:,

विवशपतितनेत्रा:, तत्र तत्रैव गोप्य: ।

विगलितगृहकृत्या:, विस्मृतापत्यभृत्या:,

मुरहर, मुहु:, अत्यन्ताकुला:, नित्यमासन् ॥ ७ ॥

 

प्रतिनवनवनीतं, गोपिकादत्तमिच्छन्,

कलपदं उपगायन्, कोमलं क्वापि नृत्यन् ।

सदययुवतिलोकै: अर्पितं सर्पिरश्नन्,

क्वचन नवविपक्वं, दुग्धमपि आपिबस्त्वम् ॥ ८ ॥

 

मम खलु बलिगेहे, याचनं जातं, आस्तां,

इह पुन:, अबलानां, अग्रत:, नैव कुर्वे ।

इति विहितमति: किं देव, सन्त्यज्य याच्ञां,

दधिघृतं, अहरस्त्वं, चारुणा, चोरणेन ॥ ९ ॥

 

तव दधिघृतमोषे, घोषयोषाजनानां,

अभजत, हृदि रोषो, नावकाशं न शोक: ।

हृदयमपि मुषित्वा, हर्षसिन्धौ न्यधास्त्वं,

स, मम शमय रोगान्, वातगेहाधिनाथ ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये पञ्चचत्वारिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 45rd dashakam.

Series Navigation<< நாராயணீயம் நாற்பத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 44th Dashakam audio mp3நாராயணீயம் நாற்பத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 46th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.