Categories
Narayaneeyam

நாராயணீயம் நாற்பத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 44th Dashakam audio mp3


நாராயணீயம் நாற்பத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 44th Dashakam audio mp3

Have given the 44th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये चतुश्चत्वारिंशं दशकम्

गूढं, वसुदेवगिरा, कर्तुं ते, निष्क्रियस्य संस्कारान् ।

हृद्गतहोरातत्वो, गर्गमुनिस्त्वत् गृहं, विभो गतवान् ॥१॥

 

नन्दोऽथ नन्दितात्मा, बृन्दिष्टं मानयन्, अमुं यमिनाम् ।

मन्दस्मितार्द्रमूचे, त्वत्संस्कारान्, विधातुं, उत्सुकधी: ॥२॥

 

यदुवंशाचार्यत्वात्, सुनिभृतं, इदमार्य कार्यं इति कथयन् ।

गर्गो निर्गतपुलक:, चक्रे तव साग्रजस्य नामानि ॥३॥

 

कथमस्य नाम कुर्वे, सहस्रनाम्नो हि, अनन्तनाम्नो वा ।

इति नूनं गर्गमुनि:, चक्रे, तव नाम नाम, रहसि विभो ॥४॥

 

कृषिधातु,णकाराभ्यां, सत्तानन्दात्मतां, किलाभिलपत् ।

जगदघकर्षित्वं वा, कथयदृषि:, कृष्णनाम, ते व्यतनोत् ॥५॥

 

अन्यांश्च नामभेदान्, व्याकुर्वन्, अग्रजे च रामादीन् ।

अतिमानुषानुभावं, न्यगदत्, त्वामप्रकाशयन् पित्रे ॥६॥

 

स्निह्यति य:, तव पुत्रे, मुह्यति स न मायिकै:, पुन: शोकै: ।

द्रुह्यति य:, स तु नश्येत्, इत्यवदत्ते महत्वं, ऋषिवर्य: ॥७॥

 

जेष्यति बहुतरदैत्यान्, नेष्यति निजबन्धुलोकं, अमलपदम् ।

श्रोष्यति, सुविमलकीर्ती:, अस्येति, भवद्विभूतिं, ऋषिरूचे ॥८॥

 

अमुनैव, सर्वदुर्गं तरितास्थ, कृतास्थं, अत्र तिष्ठध्वम् ।

हरिरेव, इत्यनभिलपन्, इत्यादि त्वां, अवर्णयत् स मुनि: ॥९॥

 

गर्गेऽथ निर्गतेऽस्मिन्, नन्दितनन्दादिनन्द्यमानस्त्वम् ।

मद्गदं, उद्गतकरुणो निर्गमय, श्रीमरुत्पुराधीश ॥१०॥

 

ॐ तत्सदिति श्रीमन्नारायणीये चतुश्चत्वारिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 44rd dashakam.

Series Navigation<< நாராயணீயம் நாற்பத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 43rd Dashakam audio mp3நாராயணீயம் நாற்பத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 45th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.