Categories
Narayaneeyam

நாராயணீயம் நாற்பத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 43rd Dashakam audio mp3


நாராயணீயம் நாற்பத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 43rd Dashakam audio mp3

Have given the 43rd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये त्रिचत्वारिंशं दशकम्

त्वामेकदा, गुरुमरुत्पुरनाथ, वोढुं, गाढाधिरूढ,गरिमाणं, अपारयन्ती ।

माता निधाय शयने, किमिदं बतेति, ध्यायन्त्यचेष्टत गृहेषु, निविष्टशङ्का ॥ १ ॥

 

तावत् विदूरं, उपकर्णितघोरघोष,व्याजृम्भिपांसुपटली,परिपूरिताश: ।

वात्यावपुस्स किल दैत्यवर:, तृणावर्ताख्यो जहार, जनमानसहारिणं त्वाम् ॥ २ ॥

 

उद्दामपांसुतिमिराहत,दृष्टिपाते, द्रष्टुं किमपि, अकुशले, पशुपाललोके ।

हा, बालकस्य किमिति, त्वदुपान्तमाप्ता, माता, भवन्तमविलोक्य, भृशं रुरोद ॥ ३ ॥

 

तावत् स दानववरोऽपि च दीनमूर्ति:, भावत्कभार,परिधारणलूनवेग: ।

सङ्कोचमाप तदनु, क्षतपांसुघोषे, घोषे, व्यतायत, भवज्जननीनिनाद: ॥ ४ ॥

 

रोदोपकर्णनवशात्, उपगम्य गेहं, क्रन्दत्सु नन्दमुखगोपकुलेषु, दीन: ।

त्वां दानवस्तु, अखिल,मुक्तिकरं मुमुक्षु:, त्वय्यप्रमुञ्चति पपात, वियत्प्रदेशात् ॥ ५ ॥

 

रोदाकुलास्तदनु गोपगणा:, बहिष्ठपाषाणपृष्ठभुवि, देहं, अतिस्थविष्ठम् ।

प्रैक्षन्त हन्त निपतन्तं, अमुष्य वक्षसि, अक्षीणमेव च भवन्तं, अलं हसन्तम् ॥ ६ ॥

 

ग्रावप्रपातपरिपिष्टगरिष्ठदेह-,भ्रष्टासुदुष्टदनुजोपरि, धृष्टहासम् ।

आघ्नानं, अम्बुजकरेण भवन्तमेत्य, गोपा दधु:, गिरिवरादिव नीलरत्नम् ॥ ७ ॥

 

एकैकमाशु, परिगृह्य, निकामनन्दन्,नन्दादिगोप, परिरब्धविचुम्बिताङ्गम् ।

आदातुकाम,परिशङ्कित,गोपनारी-,हस्ताम्बुजप्रपतितं, प्रणुमो भवन्तम् ॥ ८ ॥

 

भूयोऽपि किन्नु कृणुम:, प्रणतार्तिहारी, गोविन्द एव, परिपालयतात्, सुतं न: ।

इत्यादि, मातरपितृप्रमुखै:, तदानीं, सम्प्रार्थित:, त्वदवनाय, विभो, त्वमेव ॥ ९ ॥

 

वातात्मकं, दनुजमेवं, अयि प्रधून्वन्, वातोद्भवान्, मम गदान्, किमु, नो धुनोषि ।

किं वा करोमि, पुनरपि, अनिलालयेश, निश्शेषरोगशमनं, मुहु:, अर्थये त्वाम् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये त्रिचत्वारिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 43rd dashakam.

Series Navigation<< நாராயணீயம் நாற்பத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 42nd Dashakam audio mp3நாராயணீயம் நாற்பத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 44th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.