Categories
Narayaneeyam

நாராயணீயம் நாற்பத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 42nd Dashakam audio mp3


நாராயணீயம் நாற்பத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 42nd Dashakam audio mp3

Have given the 42nd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये द्विचत्वारिंशं दशकम्

कदापि जन्मर्क्षदिने, तव प्रभो, निमन्त्रितज्ञातिवधू,महीसुरा ।

महानस:, त्वां सविधे निधाय, सा, महानसादौ, ववृते व्रजेश्वरी ॥ १ ॥

 

ततो, भवत्त्राणनियुक्तबालक,प्रभीतिसङ्क्रन्दन,सङ्कुलारवै: ।

विमिश्रं,अश्रावि भवत्समीपत:, परिस्फुटद्दारु,चटच्चटारव: ॥ २ ॥

 

ततस्तदाकर्णनसम्भ्रमश्रम,प्रकम्पिवक्षोजभरा:, व्रजाङ्गना: ।

भवन्तं, अन्तर्ददृशुस्समन्तत:, विनिष्पतत् दारुणदारुमध्यगम् ॥ ३ ॥

 

शिशो:, अहो, किं किं, अभूत्, इति द्रुतं प्रधाव्य, नन्द:, पशुपाश्च भूसुरा: ।

भवन्तं, आलोक्य, यशोदया धृतं, समाश्वसन्,अश्रुजलार्द्रलोचना: ॥ ४ ॥

 

कस्को नु, कौतस्कुत एष विस्मय:, विशङ्कटं यत्, शकटं विपाटितम् ।

न कारणं किञ्चित्, इहेति ते स्थिता:, स्वनासिकादत्तकरा:, त्वदीक्षका: ॥ ५ ॥

 

कुमारकस्यास्य, पयोधरार्थिन:, प्ररोदने, लोलपदाम्बुजाहतम् ।

मया मया दृष्टं, अनो विपर्यगात्, इतीश, ते पालकबालका:, जगु: ॥ ६ ॥

 

भिया तदा, किञ्चित्, अजानतामिदं, कुमारकाणाम्, अतिदुर्घटं वच: ।

भवत्प्रभावाविदुरै:, इतीरितं, मनागिवाशङ्क्यत, दृष्टपूतनै: ॥ ७ ॥

 

प्रवालताम्रं, किमिदं पदं क्षतं, सरोजरम्यौ नु, करौ विरोजितौ।

इति प्रसर्पत्करुणातरङ्गिता:, त्वदङ्गं, आपस्पृशु:, अङ्गनाजना: ॥ ८ ॥

 

अये, सुतं देहि, जगत्पते: कृपातरङ्गपातात्, परिपातं, अद्य मे ।

इति स्म सङ्गृह्य पिता त्वदङ्गकं, मुहुर्मुहु:, श्लिष्यति, जातकण्टक: ॥ ९ ॥

 

अनोनिलीन:, किल हन्तुमागत:, सुरारि:, एवं भवता, विहिंसित: ।

रजोऽपि नो दृष्टं, अमुष्य तत्कथं, स शुद्धसत्त्वे त्वयि, लीनवान् ध्रुवम् ॥१०॥

 

प्रपूजितै:, तत्र ततो द्विजातिभि:, विशेषतो, लम्भितमङ्गलाशिष: ।

व्रजं, निजैर्बाल्यरसैर्विमोहयन्, मरुत्पुराधीश, रुजां जहीहि मे ॥११॥

 

ॐ तत्सदिति श्रीमन्नारायणीये द्विचत्वारिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 42nd dashakam.

Series Navigation<< நாராயணீயம் நாற்பத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 41st Dashakam audio mp3நாராயணீயம் நாற்பத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 43rd Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.