Categories
Narayaneeyam

நாராயணீயம் நாற்பத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 41st Dashakam audio mp3


நாராயணீயம் நாற்பத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 41st Dashakam audio mp3

Have given the 41st dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये एकचत्वारिंशं दशकम्

व्रजेश्वर:, शौरिवचो निशम्य, समाव्रजन्, अध्वनि भीतचेता: ।

निष्पिष्ट,निश्शेषतरुं निरीक्ष्य, कञ्चित्पदार्थं, शरणं गतस्त्वाम् ॥ १ ॥

 

निशम्य, गोपीवचनात् उदन्तं, सर्वेऽपि गोपा:, भयविस्मयान्धा: ।

त्वत्पातितं, घोरपिशाचदेहं, देहुर्विदूरेऽथ, कुठारकृत्तम् ॥ २ ॥

 

त्वत्पीतपूतस्तनतच्छरीरात्, समुच्चलन्, उच्चतरो हि धूम: ।

शङ्कामधात्, आगरव: किमेष:, किं चान्दनो, गौल्गुलवोऽथवेति ॥ ३ ॥

 

मदङ्गसङ्गस्य फलं, न दूरे, क्षणेन तावत्, भवतामपि स्यात् ।

इत्युल्लपन्, वल्लवतल्लजेभ्य:, त्वं पूतनां, आतनुथा: सुगन्धिम् ॥ ४ ॥

 

चित्रं पिशाच्या, न हत: कुमार:, चित्रं पुरैवाकथि, शौरिणेदम् ।

इति प्रशंसन् किल, गोपलोको, भवन्मुखालोकरसे, न्यमाङ्क्षीत् ॥ ५ ॥

 

दिनेदिनेऽथ, प्रतिवृद्धलक्ष्मी:, अक्षीणमङ्गल्यशतो व्रजोऽयम् ।

भवन्निवासात्, अयि वासुदेव, प्रमोदसान्द्र:, परितो विरेजे ॥ ६ ॥

 

गृहेषु ते, कोमलरूपहास, मिथ:कथासङ्कुलिता:, कमन्य: ।

वृत्तेषु कृत्येषु, भवन्निरीक्षासमागता:, प्रत्यहं, अत्यनन्दन् ॥ ७ ॥

 

अहो कुमारो, मयि दत्तदृष्टि:, स्मितं कृतं मां प्रति वत्सकेन ।

एह्येहि मां, इत्युपसार्य पाणिं, त्वयीश किं किं, न कृतं वधूभि: ॥ ८ ॥

 

भवद्वपु:स्पर्शनकौतुकेन, करात्करं, गोपवधूजनेन ।

नीतस्त्वं, आताम्रसरोजमाला,व्यालम्बिलोलम्बतुलां अलासी: ॥ ९ ॥

 

निपाययन्ती स्तनं, अङ्कगं त्वां, विलोकयन्ती वदनं, हसन्ती ।

दशां, यशोदा, कतमां न भेजे, स तादृश: पाहि, हरे गदान्माम् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये एकचत्वारिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 41st dashakam.

Series Navigation<< நாராயணீயம் நாற்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 40th Dashakam audio mp3நாராயணீயம் நாற்பத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 42nd Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.