Categories
Narayaneeyam

நாராயணீயம் நாற்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 40th Dashakam audio mp3


நாராயணீயம் நாற்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 40th Dashakam audio mp3

Have given the 40th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये चत्वारिंशं दशकम्

तदनु नन्दं, अमन्दशुभास्पदं, नृपपुरीं, करदानकृते गतम्।

समवलोक्य जगाद, भवत्पिता, विदितकंससहायजनोद्यम: ॥ १ ॥

 

अयि सखे, तव बालकजन्म, मां सुखयते अद्य, निजात्मजजन्मवत् ।

इति, भवत्पितृतां, व्रजनायके समधिरोप्य, शशंस, तमादरात् ॥ २ ॥

 

इह च सन्ति, अनिमित्तशतानि ते, कटकसीम्नि, ततो लघु गम्यताम् ।

इति च, तद्वचसा, व्रजनायको, भवदपायभिया, द्रुतमाययौ ॥ ३ ॥

 

अवसरे खलु तत्र च काचन, व्रजपदे मधुराकृति:, अङ्गना ।

तरलषट्पदलालितकुन्तला, कपटपोतक, ते निकटं गता ॥ ४ ॥

 

सपदि सा, हृतबालकचेतना, निशिचरान्वयजा किल, पूतना ।

व्रजवधूष्विह, केयमिति क्षणं, विमृशतीषु, भवन्तं, उपाददे ॥ ५ ॥

 

ललितभावविलास,हृतात्मभि:, युवतिभि: प्रतिरोद्धुं, अपारिता ।

स्तनमसौ, भवनान्तनिषेदुषी, प्रददुषी भवते, कपटात्मने ॥ ६ ॥

 

समधिरुह्य तदङ्कं, अशङ्कित:, त्वमथ, बालकलोपनरोषित: ।

महदिवाम्रफलं, कुचमण्डलं, प्रतिचुचूषिथ, दुर्विषदूषितम् ॥ ७ ॥

 

असुभिरेव समं धयति त्वयि, स्तनमसौ स्तनितोपमनिस्वना ।

निरपतत्, भयदायि निजं वपु: प्रतिगता, प्रविसार्य भुजावुभौ ॥ ८ ॥

 

भयदघोषण,भीषणविग्रह,श्रवणदर्शन,मोहितवल्लवे ।

व्रजपदे, तदुर:स्थलखेलनं, ननु भवन्तं, अगृह्णत, गोपिका: ॥ ९ ॥

 

भुवनमङ्गलनामभिरेव, ते, युवतिभिर्बहुधा, कृतरक्षण: ।

त्वमयि वातनिकेतन,नाथ, मामगदयन्, कुरु तावकसेवकम् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये चत्वारिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 40th dashakam.

Series Navigation<< நாராயணீயம் முப்பத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 39th Dashakam audio mp3நாராயணீயம் நாற்பத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 41st Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.