Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் அறுபத்தி எட்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 68th sargam audio mp3

ஸுந்தரகாண்டம் அறுபத்தி எட்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 68th sargam audio mp3

Sundarakandam 68th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் அறுபத்தி எட்டாவது ஸர்கம்

सुन्दरकाण्डे अष्टषष्टितमस्सर्ग:

अथाहमुत्तरं देव्या पुनरुक्तस्ससम्भ्रम:।

तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै।।5.68.1।।

एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया।

यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे।।5.68.2।।

यदि वा मन्यसे वीर वसैकाहमरिन्दम।

कस्मिंश्चित्संवृते देशे विश्रान्त: श्वो गमिष्यसि।।5.68.3।।

मम चाप्यल्पभाग्याया: सान्निध्यात्तव वानर।

अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम्।।5.68.4।।

गते हि त्वयि विक्रान्ते पुनरागमनाय वै।

प्राणानामपि सन्देहो मम स्यान्नात्र संशयः।।5.68.5।।

तवादर्शनजश्शोको भूयो मां परितापयेत्।

दुःखाद्दु:खपराभूतां दुर्गतां दुःखभागिनीम्।।5.68.6।।

अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः।

सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर।।5.68.7।।

कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्।

तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ।।5.68.8।।

त्रयाणामेव भूतानां सागरस्यास्य लङ्घने।

शक्तिस्स्याद्वैनतेयस्य तव वा मारुतस्य वा।।5.68.9।।

तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे।

किं पश्यसि समाधानं त्वं हि कार्यविदां वरः।।5.68.10।।

काममस्य त्वमेवैकः कार्यस्य परिसाधने।

पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः।।5.68.11।।

बलै स्समग्रैर्यदि मां हत्वा रावणमाहवे।

विजयी स्वां पुरीं रामो नयेत्तत्स्याद्यशस्करम्।।5.68.12।।

यथाऽहं तस्य वीरस्य वनादुपधिना हृता।

रक्षसा तद्भयादेव तथा नार्हति राघवः।।5.68.13।।

बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः।

मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्।।5.68.14।।

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः।

भवत्यावहशूरस्य तथा त्वमुपपादय।।5.68.15।।

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्।

निशम्याहं ततश्शेषं वाक्यमुत्तरमब्रुवम्।।5.68.16।।

देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः।

सुग्रीवस्सत्त्वसम्पन्न: तवार्थे कृतनिश्चयः।।5.68.17।।

तस्य विक्रमसम्पन्ना: सत्त्ववन्तो महाबलाः।

मनस्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः।।5.68.18।।

येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः।

न च कर्मसु सीदन्ति महत्स्वमिततेजसः।।5.68.19।।

असकृत्तैर्महाभागै: वानरैर्बलदर्पितैः।

प्रदक्षिणीकृता भूमि: वायुमार्गानुसारिभिः।।5.68.20।।

मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः।

मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ।।5.68.21।।

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः।

न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हि इतरे जनाः।।5.68.22।।

तदलं परितापेन देवि मन्युर्व्यपैतु ते।

एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः।।5.68.23।।

मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ।

त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः।।5.68.24।।

अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम्।

लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम्।।5.68.25।।

नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्।

वानरान्वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि सङ्गतान्।।5.68.26।।

शैलाम्बुदनिकाशानां लङ्कामलयसानुषु।

नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम्।।5.68.27।।

निवृत्तवनवासं च त्वया सार्धमरिन्दमम्।

अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम्।।5.68.28।।

ततो मया वाग्भिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसादिता।

जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तदाभिपीडिता।।5.68.29।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे अष्टषष्टितमस्सर्ग: ।।

Series Navigation<< ஸுந்தரகாண்டம் அறுபத்தி ஏழாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 67th sargam audio mp3srirama pattabhishekam slokams text and audio mp3; ஸ்ரீ ராம பட்டாபிஷேகம் ஸ்லோகங்கள் ஒலிப்பதிவு mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.