Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் அறுபத்தி ஏழாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 67th sargam audio mp3

ஸுந்தரகாண்டம் அறுபத்தி ஏழாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 67th sargam audio mp3

Sundarakandam 67th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் அறுபத்தி ஏழாவது ஸர்கம்

सुन्दरकाण्डे सप्तषष्टितमस्सर्ग:

एवमुक्तस्तु हनुमान् राघवेण महात्मना।

सीताया भाषितं सर्वं न्यवेदयत राघवे।।5.67.1।।

इदमुक्तवती देवी जानकी पुरुषर्षभ।

पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम्।।5.67.2।।

सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता।

वायस: सहसोत्पत्य विददार स्तनान्तरे।।5.67.3।।

पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज।

पुनश्च किल पक्षी स देव्या जनयति व्यथाम्।।5.67.4।।

पुनः पुनरुपागम्य विददार भृशं किल।

ततस्त्वं बोधितस्तस्याश्शोणितेन समुक्षितः।।5.67.5।।

वायसेन च तेनैव सततं बाध्यमानया।

बोधितः किल देव्या त्वं सुखसुप्तः परन्तप।।5.67.6।।

तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे।

आशीविष इव क्रुद्धो निश्वसन्नभ्यभाषथाः।।5.67.7।।

नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम्।

कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना।।5.67.8।।

निरीक्षमाणस्सहसा वायसं समवैक्षथाः।

नखैस्सरुधिरैस्तीक्ष्णै: तामेवाभिमुखं स्थितम्।।5.67.9।।

सुतः किल स शक्रस्य वायसः पततां वरः।

धरान्तरचरश्शीघ्रं पवनस्य गतौ समः।।5.67.10।।

ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः।

वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर।।5.67.11।।

स दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण ह्ययोजयः।

स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम्।।5.67.12।।

क्षिप्तवांस्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति।

ततस्तु वायसं दीप्तस्स दर्भोऽनुजगाम ह।।5.67.13।।

स पित्रा च परित्यक्तस्सुरैश्च समहर्षिभिः।

त्रीन् लोकान् सम्परिक्रम्य त्रातारं नाधिगच्छति।।5.67.14।।

पुनरेवागतस्त्रस्त: त्वत्सकाशमरिंदम।

स तं निपतितं भूमौ शरण्यश्शरणागतम्।।5.67.15।।

वधार्हमपि काकुत्स्थ कृपया पर्यपालयः।

मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव।।5.67.16।।

भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्।

राम त्वां स नमस्कृत्य राज्ञे दशरथाय च।।5.67.17।।

विसृष्टस्तु तदा काक प्रतिपेदे स्वमालयम्।

एवमस्त्रविदां श्रेष्ठ: सत्त्ववान् शीलवानपि।।5.67.18।।

किमर्थमस्त्रं रक्षस्सु न योजयति राघवः।

न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः।।5.67.19।।

न च सर्वे रणे शक्ता रामं प्रतिसमासितुम्।

तस्य वीर्यवतः कश्चित् यद्यस्ति मयि सम्भ्रमः।।5.67.20।।

क्षिप्रं सुनिशितैर्बाणै: हन्यतां युधि रावणः।

भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परन्तपः।।5.67.21।।

स किमर्थं नरवरो न मां रक्षति राघवः।

शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।।5.67.22।।

सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः।

ममैव दुष्कृतं किञ्चित् महदस्ति न संशयः।।5.67.23।।

समर्थौ अपि तौ यन्मां नावेक्षेते परन्तपौ।

वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम्।

पुनरप्यहमार्यां तामिदं वचनमब्रुवम्।।5.67.24।।

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे।।5.67.25।।

रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते।

कथञ्चिद्भवती दृष्टा न कालः परिशोचितुम्।।5.67.26।।

इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि।

तावुभौ नरशार्दूलौ राजपुत्रावनिन्दितौ।।5.67.27।।

त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः।

हत्वा च समरे रौद्रं रावणं सह बान्धवम्।।5.67.28।।

राघवस्त्वां वरारोहे स्वां पुरीं नयते ध्रुवम्।

यत्तु रामो विजानीयादभिज्ञानमनिन्दिते।।5.67.29।।

प्रीतिसञ्जननं तस्य प्रदातुं त्वमिहार्हसि।

साभिवीक्ष्य दिशस्सर्वा वेण्युद्ग्रथितमुत्तमम्।।5.67.30।।

मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल।

प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह।।5.67.31।।

शिरसा तां प्रणम्यार्यामहमागमने त्वरे।

गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी।।5.67.32।।

विवर्धमानं च हि मामुवाच जनकात्मजा।

अश्रुपूर्णमुखी दीना बाष्पसन्दिग्धभाषिणी।।5.67.33।।

ममोत्पतनसम्भ्रान्ता शोकवेगसमाहिता।

हनुमन् सिंहसंकाशौ तावुभौ रामलक्ष्मणौ।।5.67.34।।

सुग्रीवञ्च सहामात्यं सर्वान् ब्रूया ह्यनामयम्।

यथा च स महाबाहुर्मां तारयति राघवः।

अस्माद्धुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि।।5.67.35।।

इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च।

ब्रूयास्तु रामस्य गतस्समीपम् शिवश्च तेऽध्वास्तु हरिप्रवीर।।5.67.36।।

एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम्।

एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम्।।5.67.37।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे सप्तषष्टितमस्सर्ग: ।।

Series Navigation<< ஸுந்தரகாண்டம் அறுபத்தி ஆறாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 66th sargam audio mp3ஸுந்தரகாண்டம் அறுபத்தி எட்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 68th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.