சிவானந்தலஹரி 35 முதல் 67 ஸ்லோகங்கள் ஒலிப்பதிவு
योगक्षेमधुरन्धरस्य, सकलश्रेयःप्रदोद्योगिन:,
दृष्टादृष्टमतोपदेशकृतिन:, बाह्यान्तरव्यापिनः ।
सर्वज्ञस्य, दयाकरस्य, भवतः किं वेदितव्यं मया,
शम्भो, त्वं परमान्तरङ्ग इति मे, चित्ते स्मराम्यन्वहम् ॥ ३५ ॥
भक्तो भक्तिगुणावृते, मुदमृतापूर्णे, प्रसन्ने मनः-
कुम्भे, साम्ब, तवाङ्घ्रिपल्लवयुगं, संस्थाप्य संवित्फलम् ।
सत्वं मन्त्रमुदीरयन्, निजशरीरागारशुद्धिं वहन्,
पुण्याहं प्रकटीकरोमि, रुचिरं कल्याणमापादयन् ॥ ३६ ॥
आम्नायाम्बुधिमादरेण, सुमनस्सङ्घाः, समुद्यन्मनो
मन्थानं, दृढभक्तिरज्जुसहितं कृत्वा, मथित्वा ततः ।
सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं, धीमतां,
नित्यानन्दसुधां, निरन्तररमासौभाग्यं, आतन्वते ॥ ३७ ॥
प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः, प्रसन्नः शिवः,
सोमः, सद्गुणसेवितो मृगधरः, पूर्णस्तमोमोचकः ।
चेतः पुष्करलक्षितो भवति चेत्, आनन्दपाथोनिधिः,
प्रागल्भ्येन विजृम्भते, सुमनसां वृत्तिस्तदा जायते ॥ ३८ ॥
धर्मो मे चतुरङ्घ्रिकः सुचरितः, पापं विनाशं गतं,
कामक्रोधमदादयो विगलिताः, कालाः सुखाविष्कृताः ।
ज्ञानानन्दमहौषधिः सुफलिता, कैवल्यनाथे सदा,
मान्ये, मानसपुण्डरीकनगरे, राजावतंसे स्थिते ॥ ३९ ॥
धीयन्त्रेण वचोघटेन, कविताकुल्योपकुल्याक्रमै:,
आनीतैश्च, सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः ।
हृत्केदारयुताश्च भक्तिकलमाः, साफल्यमातन्वते,
दुर्भिक्षान् मम सेवकस्य भगवन्, विश्वेश, भीतिः कुतः ॥ ४० ॥
पापोत्पातविमोचनाय, रुचिरैश्वर्याय, मृत्युञ्जय,
स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने ।
जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थित:,
मामाज्ञापय, तन्निरूपय मुहु: मां, एव मा मेऽवचः ॥ ४१ ॥
गाम्भीर्यं परिखापदं, घनधृतिः प्राकार:, उद्यद्गुण-
स्तोमश्चाप्तबलं, घनेन्द्रियचयो द्वाराणि देहे स्थितः ।
विद्यावस्तुसमृद्धि:, इत्यखिलसामग्रीसमेते सदा,
दुर्गातिप्रियदेव, मामकमनोदुर्गे निवासं कुरु ॥ ४२ ॥
मा गच्छ त्वं इतस्ततो गिरिश भो, मय्येव वासं कुरु,
स्वामिन्, आदिकिरात, मामकमनःकान्तारसीमान्तरे ।
वर्तन्ते बहुशो मृगा:, मदजुषो मात्सर्यमोहादय:,
तान् हत्वा, मृगयाविनोदरुचितालाभं च, सम्प्राप्स्यसि ॥ ४३ ॥
करलग्नमृगः, करीन्द्रभङ्ग:, घनशार्दूलविखण्डन:, अस्तजन्तुः ।
गिरिशो विशदाकृतिश्च, चेतः कुहरे पञ्चमुखोस्ति, मे कुतो भीः ॥ ४४ ॥
छन्दःशाखिशिखान्वितै:, द्विजवरैः संसेविते, शाश्वते,
सौख्यापादिनि, खेदभेदिनि, सुधासारैः फलैर्दीपिते ।
चेतःपक्षिशिखामणे, त्यज वृथासञ्चारमन्यैरलं,
नित्यं, शङ्करपादपद्मयुगलीनीडे, विहारं कुरु ॥ ४५ ॥
आकीर्णे नखराजिकान्तिविभवै:, उद्यत्सुधावैभवै:
आधौतेपि च, पद्मरागललिते, हंसव्रजैराश्रिते ।
नित्यं भक्तिवधूगणैश्च, रहसि स्वेच्छाविहारं कुरु,
स्थित्वा मानसराजहंस, गिरिजानाथाङ्घ्रिसौधान्तरे ॥ ४६ ॥
शम्भुध्यानवसन्तसङ्गिनि, हृदारामे, अघजीर्णच्छदाः
स्रस्ता:, भक्तिलताच्छटा: विलसिताः, पुण्यप्रवालश्रिताः ।
दीप्यन्ते, गुणकोरका: जपवचःपुष्पाणि, सद्वासना,
ज्ञानानन्दसुधामरन्दलहरी, संवित्फलाभ्युन्नतिः ॥ ४७ ॥
नित्यानन्दरसालयं, सुरमुनिस्वान्ताम्बुजाताश्रयं,
स्वच्छं सद्द्विजसेवितं, कलुषहृत्सद्वासनाविष्कृतम् ।
शम्भुध्यानसरोवरं व्रज, मनो हंसावतंस, स्थिरं,
किं, क्षुद्राश्रयपल्वलभ्रमणसञ्जातश्रमं, प्राप्स्यसि ॥ ४८ ॥
आनन्दामृतपूरिता, हरपदाम्भोजालवालोद्यता,
स्थैर्योपघ्नमुपेत्य भक्तिलतिका, शाखोपशाखान्विता ।
उच्छैर्मानसकायमानपटलीमाक्रम्य, निष्कल्मषा,
नित्याभीष्टफलप्रदा भवतु मे, सत्कर्मसंवर्धिता ॥ ४९ ॥
सन्ध्यारम्भविजृम्भितं, श्रुतिशिरस्थानान्तराधिष्ठितं,
सप्रेमभ्रमराभिरामं, असकृत् सद्वासनाशोभितम् ।
भोगीन्द्राभरणं, समस्तसुमनःपूज्यं, गुणाविष्कृतं,
सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं, शिवालिङ्गितम् ॥ ५० ॥
भृङ्गीच्छानटनोत्कटः, करिमदग्राही, स्फुरन्माधवा-
ह्लाद:, नादयुत:, महासितवपुः, पञ्चेषुणा चादृतः ।
सत्पक्षः सुमनोवनेषु स पुनः, साक्षान्मदीये, मनो-
राजीवे, भ्रमराधिपो विहरतां, श्रीशैलवासी विभु: ॥ ५१ ॥
कारुण्यामृतवर्षिणं, घनविपद्ग्रीष्मच्छिदाकर्मठं,
विद्यासस्यफलोदयाय सुमनःसंसेव्यं, इच्छाकृतिम् ।
नृत्यद्भक्तमयूरं, अद्रिनिलयं, चञ्चज्जटामण्डलं,
शम्भो, वाञ्छति नीलकन्धर, सदा त्वां मे मनश्चातकः ॥ ५२ ॥
आकाशेन शिखी, समस्तफणिनां नेत्रा कलापी, नता-
ऽनुग्राहि,प्रणवोपदेशनिनदैः केकीति यो गीयते ।
श्यामां शैलसमुद्भवां, घनरुचिं, दृष्ट्वा नटन्तं मुदा,
वेदान्तोपवने विहाररसिकं, तं नीलकण्ठं भजे ॥ ५३ ॥
सन्ध्याघर्मदिनात्यय:, हरिकराघातप्रभूतानक-
ध्वानो वारिदगर्जितं, दिविषदां दृष्टिच्छटा चञ्चला ।
भक्तानां परितोषबाष्पवितति:, वृष्टि:, मयूरी शिवा,
यस्मिन्नुज्ज्वलताण्डवं विजयते, तं नीलकण्ठं भजे ॥ ५४ ॥
आद्याय, अमिततेजसे, श्रुतिपदैर्वेद्याय, साध्याय ते,
विद्यानन्दमयात्मने, त्रिजगतः संरक्षणोद्योगिने ।
ध्येयायाखिलयोगिभिः, सुरगणैर्गेयाय, मायाविने,
सम्यक्ताण्डवसम्भ्रमाय, जटिने, सेयं नतिः शम्भवे ॥ ५५ ॥
नित्याय, त्रिगुणात्मने, पुरजिते, कात्यायनीश्रेयसे,
सत्याय, आदिकुटुम्बिने, मुनिमनः प्रत्यक्षचिन्मूर्तये ।
मायासृष्टजगत्त्रयाय, सकलाम्नायान्तसञ्चारिणे,
सायं ताण्डवसम्भ्रमाय, जटिने, सेयं नतिः शम्भवे ॥ ५६ ॥
नित्यं स्वोदरपोषणाय, सकलानुद्दिश्य वित्ताशया,
व्यर्थं पर्यटनं करोमि, भवतः सेवां न जाने विभो ।
मज्जन्मान्तरपुण्यपाकबलत:, त्वं शर्व, सर्वान्तरस्-
तिष्ठस्येव हि, तेन वा पशुपते, ते रक्षनीयोऽस्म्यहम् ॥ ५७ ॥
एको वारिजबान्धवः, क्षितिनभो व्याप्तं तमोमण्डलं
भित्वा, लोचनगोचरोऽपि भवति, त्वं कोटिसूर्यप्रभः ।
वेद्यः किन्न भवसि, अहो घनतरं कीदृग्भवेन्मत्तम:,
तत्सर्वं व्यपनीय, मे पशुपते, साक्षात् प्रसन्नो भव ॥ ५८ ॥
हंसः पद्मवनं समिच्छति, यथा नीलाम्बुदं चातकः,
कोकः कोकनदप्रियं, प्रतिदिनं चन्द्रं चकोरस्तथा ।
चेतो वाञ्छति मामकं पशुपते, चिन्मार्गमृग्यं विभो,
गौरीनाथ, भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ॥ ५९ ॥
रोधस्तोयहृतः, श्रमेण पथिकश्छायां तरो:, वृष्टित:
भीतः स्वस्थगृहं, गृहस्थमतिथि:, दीनः प्रभुं धार्मिकम् ।
दीपं सन्तमसाकुलश्च, शिखिनं शीतावृत:, त्वं तथा,
चेतः, सर्वभयापहं व्रज सुखं, शम्भोः पदाम्भोरुहम् ॥ ६० ॥
अङ्कोलं निजबीजसन्तति:, अयस्कान्तोपलं सूचिका,
साध्वी नैजविभुं, लता क्षितिरुहं, सिन्धुः सरिद्वल्लभम् ।
प्राप्नोतीह यथा तथा, पशुपतेः पादारविन्दद्वयं,
चेतोवृत्तिरुपेत्य तिष्ठति सदा, सा भक्तिरित्युच्यते ॥ ६१ ॥
आनन्दाश्रुभि: आतनोति पुलकं, नैर्मल्यतच्छादनं,
वाचा शङ्खमुखे स्थितैश्च, जठरापूर्तिं चरित्रामृतैः ।
रुद्राक्षैर्भसितेन देव वपुषो रक्षां, भवद्भावना-
पर्यङ्के विनिवेश्य, भक्तिजननी, भक्तार्भकं रक्षति ॥ ६२ ॥
मार्गावर्तितपादुका, पशुपतेरङ्गस्य कूर्चायते,
गण्डूषाम्बुनिषेचनं, पुररिपोर्दिव्याभिषेकायते ।
किञ्चिद्भक्षितमांसशेषकबलं, नव्योपहारायते,
भक्तिः किं न करोति, अहो, वनचर: भक्तावतंसायते ॥ ६३॥
वक्षस्ताडनमन्तकस्य, कठिनापस्मारसंमर्दनं,
भूभृत्पर्यटनं, नमत्सुरशिरःकोटीरसङ्घर्षणम् ।
कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य, गौरीपते,
मच्चेतोमणिपादुकाविहरणं, शम्भो, सदाङ्गीकुरु ॥ ६४ ॥
वक्षस्ताडनशङ्कया विचलितो वैवस्वत:, निर्जराः,
कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।
दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं, भवानीपते,
यच्चेतस्तव पादपद्मभजनं, तस्येह किं दुर्लभम् ॥ ६५ ॥
क्रीडार्थं सृजसि प्रपञ्चमखिलं, क्रीडामृगास्ते जनाः,
यत्कर्माचरितं मया च, भवतः प्रीत्यै भवत्येव तत् ।
शम्भो, स्वस्य कुतूहलस्य करणं, मच्चेष्टितं निश्चितं,
तस्मान्मामकरक्षणं पशुपते, कर्तव्यमेव त्वया ॥ ६६ ॥
बहुविधपरितोषबाष्पपूर-, स्फुटपुलकाङ्कितचारुभोगभूमिम् ।
चिरपदफलकाङ्क्षिसेव्यमानां, परमसदाशिवभावनां प्रपद्ये ॥ ६७ ॥