Categories
Narayaneeyam

நாராயணீயம் முப்பத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 36th Dashakam audio mp3


நாராயணீயம் முப்பத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 36th Dashakam audio mp3

Have given the 36th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये षट्त्रिंशं दशकम्

अत्रे: पुत्रतया पुरा त्वं, अनसूयायां हि, दत्ताभिध:,

जात: शिष्यनिबन्ध तन्द्रितमना:, स्वस्थश्चरन्, कान्तया ।

दृष्टो भक्ततमेन, हैहयमहीपालेन तस्मै वरान्,

अष्टैश्वर्यमुखान्, प्रदाय ददिथ, स्वेनैव, चान्ते वधम् ॥ १ ॥

 

सत्यं कर्तुं, अथ अर्जुनस्य च वरं, तच्छक्तिमात्रानतं,

ब्रह्मद्वेषि, तदाखिलं नृपकुलं, हन्तुं च भूमेर्भरम् ।

सञ्जातो, जमदग्नितो भृगुकुले, त्वं रेणुकायां हरे,

रामो नाम, तदात्मजेषु, अवरज:, पित्रोरधा:, सम्मदम् ॥ २ ॥

 

लब्धाम्नायगण:, चतुर्दशवया:, गन्धर्वराजे मनाक्,

आसक्तां किल, मातरं प्रति, पितु: क्रोधाकुलस्य, आज्ञया ।

ताताज्ञातिगसोदरै: समं, इमां छित्वाऽथ, शान्तात् पितु:,

तेषां, जीवनयोगं, आपिथ वरं, माता च ते, अदाद्वरान् ॥ ३ ॥

 

पित्रा मातृमुदे, स्तवाहृतवियद्धेनो:, निजादाश्रमात्,

प्रस्थायाथ, भृगोर्गिरा हिमगिरौ, आराध्य गौरीपतिम् ।

लब्ध्वा, तत्परशुं, तदुक्तदनुजच्छेदी, महास्त्रादिकं

प्राप्तो, मित्रं अथ, अकृतव्रणमुनिं प्राप्य, आगम: स्वाश्रमम् ॥ ४ ॥

 

आखेटोपगतोऽर्जुन:, सुरगवीसम्प्राप्तसम्पद्गणै:,

त्वत्त्पित्रा परिपूजित: पुरगतो, दुर्मन्त्रिवाचा पुन: ।

गां क्रेतुं सचिवं न्ययुङ्क्त, कुधिया तेनापि, रुन्धन्मुनि-

प्राणक्षेपसरोष,गोहतचमूचक्रेण, वत्सो हृत: ॥ ५ ॥

 

शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ, सख्या समं,

बिभ्रत्, ध्यातमहोदरोपनिहितं, चापं कुठारं, शरान् ।

आरूढ:, सहवाहयन्तृकरथं, माहिष्मतीमाविशन्,

वाग्भिर्वत्समदाशुषि, क्षितिपतौ, सम्प्रास्तुथा:, सङ्गरम् ॥ ६ ॥

 

पुत्राणामयुतेन, सप्तदशभिश्च, अक्षौहिणीभि:, महा-

सेनानीभि:, अनेकमित्रनिवहै:, व्याजृम्भितायोधन: ।

सद्य:, त्वत्ककुठार,बाणविदलन्निश्शेषसैन्योत्कर:,

भीतिप्रद्रुतनष्टशिष्टतनय:, त्वां, आपतत् हैहय: ॥ ७ ॥

 

लीलावारितनर्मदा,जलवलल्लङ्केशगर्वापह,

श्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं, निरुन्धन्नमुम् ।

चक्रे त्वय्यथ, वैष्णवेऽपि विफले, बुद्ध्वा हरिं त्वां मुदा,

ध्यायन्तं, छितसर्वदोषं, अवधी:, सोऽगात् परं ते पदम् ॥ ८ ॥

 

भूयोऽमर्षितहैहयात्मजगणै:, ताते हते रेणुकां,

आघ्नानां हृदयं निरीक्ष्य, बहुश:, घोरां प्रतिज्ञां, वहन् ।

ध्यानानीतरथायुधस्त्वं, अकृथा:, विप्रद्रुह: क्षत्रियान्,

दिक्चक्रेषु कुठारयन्, विशिखयन्, नि:क्षत्रियां, मेदिनीम् ॥ ९ ॥

 

तातोज्जीवनकृत्, नृपालककुलं, त्रिस्सप्तकृत्वो जयन्,

सन्तर्प्याथ, समन्तपञ्चक,महारक्तहृदौघे, पितॄन् |

यज्ञे क्ष्मामपि, काश्यपादिषु दिशन्, साल्वेन युध्यन् पुन:,

कृष्णोऽमुं, निहनिष्यतीति शमित:, युद्धात्, कुमारैर्भवान् ॥ १० ॥

 

न्यस्यास्त्राणि, महेन्द्रभूभृति, तपस्तन्वन्, पुनर्मज्जितां,

गोकर्णावधि, सागरेण, धरणीं दृष्ट्वा अर्थितस्तापसै: ।

ध्यातेष्वास,धृतानलास्त्रचकितं सिन्धुं, स्रुवक्षेपणात्,

उत्सार्य, उद्धृतकेरलो, भृगुपते, वातेश, संरक्ष माम् ॥ ११ ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये षट्त्रिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 36th dashakam.

Series Navigation<< நாராயணீயம் முப்பத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 35th Dashakam audio mp3நாராயணீயம் முப்பத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 37th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.