Categories
Narayaneeyam

நாராயணீயம் முப்பத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 37th Dashakam audio mp3


நாராயணீயம் முப்பத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 37th Dashakam audio mp3

Have given the 37th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये सप्तत्रिंशं दशकम्

सान्द्रानन्दतनो हरे ननु पुरा, दैवासुरे सङ्गरे,

त्वत्कृत्ता अपि, कर्मशेषवशत:, ये, ते न याता गतिम् ।

तेषां भूतलजन्मनां, दितिभुवां भारेण, दूरार्दिता,

भूमि:, प्राप विरिञ्चं, आश्रितपदं, देवै: पुरैवागतै: ॥ १ ॥

 

हा हा, दुर्जनभूरिभारमथितां, पाथोनिधौ पातुकां,

एतां पालय, हन्त, मे विवशतां, सम्पृच्छ, देवान् इमान् ।

इत्यादिप्रचुरप्रलापविवशां, आलोक्य धाता महीं,

देवानां वदनानि वीक्ष्य परित:, दध्यौ, भवन्तं, हरे ॥ २ ॥

 

ऊचे च, अम्बुजभू:, अमून् अयि सुरा:, सत्यं धरित्र्या वच:,

नन्वस्या, भवतां च रक्षणविधौ, दक्षो हि, लक्ष्मीपति: ।

सर्वे शर्वपुरस्सरा वयमितो, गत्वा पयोवारिधिं,

नत्वा तं, स्तुमहे, जवात्, इति ययु:, साकं तवाकेतनम् ॥ ३ ॥

 

ते, मुग्धानिलशालिदुग्धजलधे:, तीरं गता: सङ्गता:,

यावत्, त्वत्पदचिन्तनैकमनस:, तावत्, स पाथोजभू: ।

त्वद्वाचं हृदये निशम्य, सकलान् आनन्दयन् ऊचिवान्,

आख्यात: परमात्मना, स्वयमहं, वाक्यं तत् आकर्ण्यताम् ॥ ४ ॥

 

जाने दीनदशामहं, दिविषदां, भूमेश्च भीमैर्नृपै:,

तत्क्षेपाय, भवामि यादवकुले, सोऽहं समग्रात्मना ।

देवा:, वृष्णिकुले भवन्तु कलया, देवाङ्गनाश्चावनौ,

मत्सेवार्थं इति, त्वदीयवचनं, पाथोजभू: ऊचिवान् ॥ ५ ॥

 

श्रुत्वा, कर्णरसायनं तव वच:, सर्वेषु, निर्वापित-

स्वान्तेषु, ईश, गतेषु, तावककृपापीयूष,तृप्तात्मसु ।

विख्याते, मधुरापुरे किल, भवत्सान्निध्यपुण्योत्तरे,

धन्यां, देवकनन्दनां, उदवहत्, राजा, स शूरात्मज: ॥ ६ ॥

 

उद्वाहावसितौ, तदीयसहज:, कंसोऽथ सम्मानयन्,

एतौ, सूततया गत: पथि रथे, व्योमोत्थया, त्वद्गिरा ।

अस्या:, त्वां, अतिदुष्टं, अष्टमसुतो हन्तेति, हन्तेरित:,

सन्त्रासात्, स तु हन्तुं, अन्तिकगतां, तन्वीं, कृपाणीं, अधात् ॥ ७ ॥

 

गृह्णान:, चिकुरेषु तां खलमति:, शौरेश्चिरं सान्त्वनै:,

नो मुञ्चन् पुन:, आत्मजार्पणगिरा, प्रीतोऽथ, यातो गृहान् ।

आद्यं, त्वत्सहजं तथाऽर्पितमपि, स्नेहेन नाहन्नसौ,

दुष्टानामपि देव, पुष्टकरुणा, दृष्टा हि धी:, एकदा ॥ ८ ॥

 

तावत्त्वन्मनसैव, नारदमुनि:, प्रोचे स भोजेश्वरं,

यूयं नन्वसुरा:, सुराश्च यदव:. जानासि, किं न प्रभो ।

मायावी स हरि:, भवद्वधकृते, भावी, सुरप्रार्थनात्,

इत्याकर्ण्य, यदून्, अदूधुनदसौ, शौरेश्च, सूनून्, अहन् ॥ ९ ॥

 

प्राप्ते सप्तमगर्भतां, अहिपतौ, त्वत्प्रेरणान्मायया,

नीते माधव, रोहिणीं, त्वमपि भो:, सच्चित्सुखैकात्मक: ।

देवक्या:, जठरं विवेशिथ, विभो, संस्तूयमान: सुरै:,

स त्वं कृष्ण, विधूय रोगपटलीं, भक्तिं परां, देहि मे ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये सप्तत्रिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 37th dashakam.

Series Navigation<< நாராயணீயம் முப்பத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 36th Dashakam audio mp3நாராயணீயம் முப்பத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 38th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.