Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் அறுபத்தி ஒன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 61st sargam audio mp3

ஸுந்தரகாண்டம் அறுபத்தி ஒன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 61st sargam audio mp3

Sundarakandam 61st sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் அறுபத்தி ஒன்றாவது ஸர்கம்

सुन्दरकाण्डे एकषष्टितमस्सर्ग:

ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः।

अङ्गदप्रमुखा वीरा हनुमांश्च महाकपिः।।5.61.1।।

प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुर:सराः।

महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः।।5.61.2।।

मेरुमन्दरसङ्काशा मत्ता इव महागजाः।

छादयन्त इवाकाशं महाकाया महाबलाः।।5.61.3।।

सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम्।

हनूमन्तं महावेगं वहन्त इव दृष्टिभिः।।5.61.4।।

राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः।

समाधाय समृद्धार्थाः कर्म सिद्धिभिरुन्नता।।5.61.5।।

प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः।

सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः।।5.61.6।।

प्लवमानाः खमुत्पत्य ततस्ते काननौकसः।

नन्दनोपमासेदुर्वनं द्रुमलतायुतम्।।5.61.7।।

यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम्।

अधृष्यं सर्वभूतानां सर्वभूतमनोहरम्।।5.61.8।।

यद्रक्षति महावीर्य: सदा दधिमुखः कपिः।

मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः।।5.61.9।।

ते तद्वनमुपागम्य बभूवुः परमोत्कटाः।

वानरा वानरेन्द्रस्य मनः कान्ततमं महत्।।5.61.10।।

ततस्ते वानरा हृष्टा दृष्वा मधुवनं महत्।

कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः।।5.61.11।।

ततः कुमारस्तान् वृद्धान् जाम्बवत्प्रमुखान् कपीन्।

अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे।।5.61.12।।

ततश्चानुमतास्सर्वे सम्प्रहृष्टा वनौकसः।

मुदिताः प्रेरिताश्चापि प्रनृत्यन्तोऽभवंस्तदा।।5.61.13।।

गायन्ति केचित्प्रणमन्ति केचिन्नृत्यन्ति केचित्प्रहसन्ति केचित्।

पतन्ति केचिद्विचरन्ति केचित्प्लवन्ति केचित्प्रलपन्ति केचित्।।5.61.14।।

परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते।

परस्परं केचिदुपब्रुवन्ते परस्परं केचिदुपारमन्ते।।5.61.15।।

द्रुमाद्द्रुमं केचिदभिद्रवन्ति क्षितौ नगाग्रान्निपतन्ति केचित्।

महीतलात्केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति।।5.61.16।।

गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति।

रुदन्तमन्यः प्रणदन्नुपैति नदन्तमन्यः प्रणुदन्नुपैति।।5.61.17।।

समाकुलं तत्कपिसैन्यमासीत् मधुप्रपानोत्कटसत्त्वचेष्टम्।

न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः।।5.61.18।।

ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान्।

समीक्ष्य कोपाद्धधिवक्त्रनामा निवारयामास कपिः कपींस्तान्।।5.61.19।।

स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः।

चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः।।5.61.20।।

उवाच कांश्चित्परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जघान।

समेत्य कैश्चित्कलहं चकार तथैव साम्नोपजगाम कांश्चित्।।5.61.21।।

स तैर्मदात्संपरिवार्य वाक्यै: बलाच्च तेन प्रतिवार्यमाणैः।

प्रधर्षितस्त्यक्तभयैस्समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम्।।5.61.22।।

नखैस्तुदन्तो दशनैर्दशन्त: तलैश्च पादैश्च समापयन्तः।

मदात्कपिं तं कपय: समग्रा: महावनं निर्विषयं च चक्रुः।।5.61.23।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे एकषष्टितमस्सर्ग: ।।

Series Navigation<< ஸுந்தரகாண்டம் அறுபதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 60th sargam audio mp3ஸுந்தரகாண்டம் அறுபத்தி இரண்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 62nd sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.