Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் அறுபத்தி இரண்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 62nd sargam audio mp3

ஸுந்தரகாண்டம் அறுபத்தி இரண்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 62nd sargam audio mp3

Sundarakandam 62nd sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் அறுபத்தி இரண்டாவது ஸர்கம்

सुन्दरकाण्डे द्विषष्टितमस्सर्ग:

तानुवाच हरिश्रेष्ठो हनुमान्वानरर्षभः।

अव्यग्रमनसो यूयं मधु सेवत वानराः।।5.62.1।।

अहमावारयिष्यामि युष्माकं परिपन्थिनः।

श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः।।5.62.2।।

प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु।

अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया।।5.62.3।।

अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम्।

अङ्गदस्य मुखाच्छ्रुत्वावचनं वानरर्षभाः।।5.62.4।।

साधुसाध्विति संहृष्टा वानराः प्रत्यपूजयन्।

पूजयित्वाङ्गदं सर्वे वानरा: वानरर्षभम्।।5.62.5।।

जग्मुर्मधुवनं यत्र नदीवेगा इव द्रुतम्।

ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः।।5.62.6।।

अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम्।

पपुस्सर्वे मधु तदा रसवत्फलमाददुः।।5.62.7।।

उत्पत्य च ततस्सर्वे वनपालान् समागतान्।

ताडयन्ति स्म शतश: सक्तान्मधुवने तदा।।5.62.8।।

मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते।

पिबन्ति सहितास्सर्वे निघ्नन्ति स्म तथापरे।।5.62.9।।

केचित्पीत्वा प्रविध्यन्ति मधूनि मधुपिङ्गलाः।

मधूच्छिष्टेन केचिच्च जग्मुरन्योन्यमुत्कटाः।।5.62.10।।

अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः।

अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते।।5.62.11।।

उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत्।

क्षिपन्ति च तथान्योन्यं स्खलन्ति च तथाऽपरे।।5.62.12।।

केचित् क्ष्वेलां प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत्।

हरयोमधुना मत्ताः केचित्सुप्ता महीतले।।5.62.13।।

कृत्वा किञ्चिद्धसन्त्यन्ये केचित्कुर्वन्ति चेतरत्।

कृत्वा किञ्चिद्वदन्त्यन्ये केचिद्बुध्यन्ति चेतरत्।।5.62.14।।

येऽप्यत्र मधुपालास्स्युः प्रेष्या दधिमुखस्य तु।

तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः।।5.62.15।।

जानुभिस्तु प्रकृष्टाश्च देवमार्गं च दर्शिताः।

अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः।।5.62.16।।

हनूमता दत्तवरैर्हतं मधुवनं बलात्।

वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः।।5.62.17।।

ततो दधिमुख: क्रुद्धो वनपस्तत्र वानरः।

हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन्।।5.62.18।।

इहागच्छत गच्छामो वानरान् बलदर्पितान्।

बलेन वारयिष्यामो मधु भक्षयतो वयम्।।5.62.19।।

श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः।

पुनर्वीरा मधुवनं तेनैव सहिता ययुः।।5.62.20।।

मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम्।

तमभ्यधावद्वेगेन ते च सर्वे प्लवङ्गमाः।।5.62.21।।

ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः।

गृहीत्वाऽऽभ्यगमन् क्रुद्धा यत्र ते कपिकुञ्जराः।।5.62.22।।

ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत्।

त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः।।5.62.23।।

वृक्षस्थांश्च तलस्थांश्च वानरान् बलदर्पितान्।

अभ्यक्रामंस्ततो वीराः पालास्तत्र सहस्रशः।।5.62.24।।

अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः।

अभ्यधावन्त वेगेन हनुमत्प्रमुखास्तदा।।5.62.25।।

तं सवृक्षं महाबाहुमापतन्तं महाबलम्।

आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः।।5.62.26।।

मदान्धश्च न वेदैनमार्यकोऽयं ममेति सः।

अथैनं निष्पिपेषाशु वेगवद्वसुधातले।।5.62.27।।

स भग्नबाहूरुभुजो विह्वलश्शोणितोक्षितः।

मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः।।5.62.28।।

स समाश्वस्य सहसा संक्रुद्धो राजमातुलः।

वानरान्वारयामास दण्डेन मधुमोहितान्।।5.62.29।।

स कथञ्चिद्विमुक्तस्स्तैर्वानरैर्वानरर्षभः।

उवाचैकान्तमाश्रित्य भृत्यान् स्वान् समुपागतान्।।5.62.30।।

एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः।

सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति।।5.62.31।।

सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिवे।

अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान्।।5.62.32।।

इष्टं मधुवनं ह्येतत्सुग्रीवस्य महात्मनः।

पितृपैतामहं दिव्यं देवैरपि दुरासदम्।।5.62.33।।

स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः।

घातयिष्यति दण्डेन सुग्रीवस्ससुहृज्जनान्।।5.62.34।।

वध्या ह्येते दुरात्मानो नृपाज्ञापरिभाविनः।

अमर्षप्रभवो रोषस्सफलो नो भविष्यति।।5.62.35।।

एवमुक्त्वा दधिमुखो वनपालान्महाबलः।

जगाम सहसोत्पत्य वनपालैस्समन्वितः।।5.62.36।।

निमेषान्तरमात्रेण स हि प्राप्तो वनालयः।

सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः।।5.62.37।।

रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च।

समप्रतिष्ठां जगतीमाकाशान्निपपात ह।।5.62.38।।

सन्निपत्य महावीर्यस्सर्वैस्तै: परिवारितः।

हरिर्दधिमुखः पालैः पालानां परमेश्वरः।।5.62.39।।

स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम्।

सुग्रीवस्य शुभौ मूर्ध्ना चरणौ पत्यपीडयत्।।5.62.40।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे द्विषष्टितमस्सर्ग: ।।

Series Navigation<< ஸுந்தரகாண்டம் அறுபத்தி ஒன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 61st sargam audio mp3ஸுந்தரகாண்டம் அறுபத்தி மூன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 63rd sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.