Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் இருபதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 20th sargam audio mp3

ஸுந்தரகாண்டம் இருபதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 20th sargam audio mp3

Sundarakandam 20th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் இருபதாவது ஸர்கம்

सुन्दरकाण्डे विंशस्सर्ग:

स तां पतिव्रतां दीनां निरानन्दां तपस्विनीम्।

साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः।।5.20.1।।

मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम्।

अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि।।5.20.2।।

कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये।

सर्वाङ्गगुणसंपन्ने सर्वलोकमनोहरे।।5.20.3।।

नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः।

व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम्।।5.20.4।।

स्वधर्मो रक्षसां भीरु सर्वथैव न संशयः।

गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा।।5.20.5।।

एष चैतदकामां तु न त्वां स्प्रक्ष्यामि मैथिलि।

कामं कामः शरीरे मे यथाकामं प्रवर्तताम्।।5.20.6।।

देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये।

प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा।।5.20.7।।

एकवेणी धरा शय्या ध्यानं मलिनमम्बरम्।

अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते।।5.20.8।।

विचित्राणि च माल्यानि चन्दनान्यगरूणि च।

विविधानि च वासांसि दिव्यान्याभरणानि च।।5.20.9।।

महार्हाणि च पानानि शयनान्यासनानि च।

गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि।।5.20.10।।

स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम्।

मां प्राप्य हि कथं नु स्यास्त्वमनर्हा सुविग्रहे।।5.20.11।।

इदं ते चारु संजातं यौवनं ह्यतिवर्तते।

यदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव।।5.20.12।।

त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृट्।

न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने।।5.20.13।।

त्वां समासाद्य वैदेहि रूपयौवनशालिनीम्।

कः पुमानतिवर्तेत साक्षादपि पितामहः।।5.20.14।।

यद्यत् पश्यामि ते गात्रं शीतांशुसदृशानने।

तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते।।5.20.15।।

भव मैथिली भार्या मे मोहमेनं विसर्जय।

बह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव।।5.20.16।।

लोकेभ्यो यानि रत्नानि संप्रमथ्याहृतानि वै।

तानि मे भीरु सर्वाणि राज्यं चैतदहं च ते।।5.20.17।।

विजित्य पृथिवीं सर्वां नानानगरमालिनीम्।

जनकाय प्रदास्यामि तव हेतोर्विलासिनि।।5.20.18।।

नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत्।

पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे।।5.20.19।।

असकृत् संयुगे भग्नाः मया विमृदितध्वजाः।

अशक्ता: प्रत्यनीकेषु स्थातुं मम सुरासुराः।।5.20.20।।

इच्छया क्रियतामद्य प्रतिकर्म तवोत्तमम्।

सप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि च।।5.20.21।।

साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा।

प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने।।5.20.22।।

भुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च।

यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च।।5.20.23।।

रमस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च।

मत्प्रसादाल्ललन्त्याश्च ललन्तां बान्धवास्तव।।5.20.24।।

ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे।

किं करिष्यसि रामेण सुभगे चीरवाससा।।5.20.25।।

निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः।

व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा।।5.20.26।।

न हि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते।

पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम्।।5.20.27।।

न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः।

हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव।।5.20.28।।

चारुस्मिते चारुदति चारुनेत्रे विलासिनि।

मनो हरसि मे भीरुः सुपर्णः पन्नगं यथा।।5.20.29।।

क्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम्।

त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम्।।5.20.30।।

अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः।

यावत्यो मम सर्वासामैश्वर्यं कुरु जानकि।।5.20.31।।

मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः।

तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा।।5.20.32।।

यानि वैश्रवणे सुभ्रूः रत्नानि च धनानि च।

तानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम्।।5.20.33।।

न रामस्तपसा देवि न बलेन न विक्रमैः।

न धनेन मया तुल्यः तेजसा यशसापि वा।।5.20.34।।

पिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च।

मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते।।5.20.35।।

कुसुमिततरुजालसंततानि भ्रमरयुतानि समुद्रतीरजानि।

कनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि।।5.20.36।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे विंशस्सर्ग: ।।

Series Navigation<< ஸுந்தரகாண்டம் பத்தொன்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 19th sargam audio mp3ஸுந்தரகாண்டம் இருபத்தி ஒன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 21st sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.