Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் ஐம்பத்தி மூன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 53rd sargam audio mp3

ஸுந்தரகாண்டம் ஐம்பத்தி மூன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 53rd sargam audio mp3

Sundarakandam 53rd sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் ஐம்பத்தி மூன்றாவது ஸர்கம்

सुन्दरकाण्डे त्रिपञ्चाशस्सर्गः

तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबल:।

देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत्।।5.53.1।।

सम्यगुक्तं हि भवता दूतवध्या विगर्हिता।

अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः।।5.53.2।।

कपीनां किल लाङ्गूलमिष्टं भवति भूषणम्।

तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु।।5.53.3।।

ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम्।

समित्रज्ञातयस्सर्वे बान्धवाः ससुहृज्जनाः।।5.53.4।।

आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम्।

लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम्।।5.53.5।।

तस्य तद्वचनं श्रुत्वा राक्षसाः कोपककर्कशा:।

वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः।।5.53.6।।

संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः।

शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः।।5.53.7।।

तैलेन परिषिच्याथ तेऽग्निं तत्रावपातयन्।

लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत्।।5.53.8।।

स तु रोषपरीतात्मा बालसूर्यसमाननः।

लाङ्गूलं सम्प्रदीप्तं तत् दृष्वा तस्य हनूमतः।।5.53.9।।

सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः।

स भूयः सङ्गतैः क्रूरैर्राक्षसैर्हरिसत्तमः।।5.53.10।।

निबद्धः कृतवान्वीरस्तत्कालसदृशीं मतिम्।

कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः।।5.53.11।।

छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान्पुनः।

यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात्।।5.53.12।।

बध्नन्त्येते दुरात्मानो न तु मे निष्कृतिः कृता।

सर्वेषामेव पर्याप्तो राक्षसानामहं युधि।।5.53.13।।

रामस्य किंतु प्रीत्यर्थं विषहिष्येऽहमीदृशम्।

लङ्का चारयितव्या वै पुनरेव भवेदिति।।5.53.14।।

रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः।

अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये।।5.53.15।।

कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च।

पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसश्श्रमः।।5.53.16।।

ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम्।

परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम्।।5.53.17।।

शङ्खभेरीनिनादैस्तं घोषयन्तः स्वकर्मभिः।

राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम्।।5.53.18।।

अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः।

हनुमांश्चारयामास राक्षसानां महापुरीम्।।5.53.19।।

अथापश्यद्विमानानि विचित्राणि महाकपिः।

संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान्।।5.53.20।।

वीथीश्च गृहसम्बाधाः कपिश्शृङ्गाटकानि च।

तथा रथ्योपरथ्याश्च तथैव च गृहान्तरान्।।5.53.21।।

गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः।

चत्वरेषु चतुष्केषु राजमार्गे तथैव च।।5.53.22।।

घोषयन्ति कपिं सर्वे चारयित्येव राक्षसाः।

स्त्रीबालवृद्धाः निर्जग्मुस्तत्र तत्र कुतूहलात्।।5.53.23।।

तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः।

दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः।।5.53.24।।

राक्षस्यस्ता विरूपाक्ष्य: शंसुर्देव्यास्तदप्रियम्।

यस्त्वया कृतसंवाद: सीते ताम्रमुखः कपिः।।5.53.25।।

लाङ्गूलेन प्रदीप्तेन स एष परिणीयते।

श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम्।।5.53.26।।

वैदेही शोकसन्तप्ता हुताशनमुपागमत्।

मङ्गलाभिमुखी तस्य सा तदाऽसीन्महाकपेः।।5.53.27।।

उपतस्थे विशालाक्षी प्रयता हव्यवाहनम्।

यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः।

यदि वास्त्येकपत्नीत्वं शीतो भव हनूमतः।।5.53.28।।

यदि कश्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः।।5.53.29।।

यदि वा भाग्यशेषो मे शीतो भव हनूमतः।

यदि मां वृत्तसम्पन्नां तत्समागमलालसाम्।।5.53.30।।

स विजानाति धर्मात्मा शीतो भव हनूमतः।

यदि मां तारयेदार्य: सुग्रीवः सत्यसङ्गरः।।5.53.31।।

अस्माद्दु:खाम्बुसंरोधात् शीतो भव हनूमतः।

ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः।।5.53.32।।

जज्वाल मृगशाबाक्ष्या: शंसन्निव शिवं कपेः।

हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः।।5.53.33।।

ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः।

दह्यमाने च लाङ्गूले चिन्तयामास वानरः।।5.53.34।।

प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः।

दृश्यते च महाज्वालः न करोति च मे रुजम्।।5.53.35।।

शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः।

अथवा तदिदं व्यक्तं यद्दृष्टं प्लवता मया।।5.53.36।।

रामप्रभावादाश्चर्यं पर्वतस्सरितां पतौ।

यदि तावत्समुद्रस्य मैनाकस्य च धीमतः।।5.53.37।।

रामार्थं सम्भ्रमस्तादृक्किमग्निर्न करिष्यति।

सीतायाश्चानृशंस्येन तेजसा राघवस्य च।।5.53.38।।

पितुश्च मम सख्येन न मां दहति पावकः।

भूयस्स चिन्तयामास मुहूर्तं कपिकुञ्जरः।।5.53.39।।

उत्पपाताथ वेगेन ननाद च महाकपिः।

पुरद्वारं ततश्श्रीमान् शैलशृङ्गमिवोन्नतम्।।5.53.40।।

विभक्तरक्षस्सम्बाधमाससादानिलात्मजः।

स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान्।।5.53.41।।

ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत्।

विमुक्तश्चाभवत् श्रीमान् पुनः पर्वतसन्निभः।।5.53.42।।

वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम्।

स तं गृह्य महाबाहुः कालायसपरिष्कृतम्।।5.53.43।।

रक्षिणस्तान् पुनस्सर्वान् सूदयामास मारुतिः।

स तान्निहत्त्वा रणचण्डविक्रम: समीक्षमाणः पुनरेव लङ्काम्।

प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली।।5.53.44।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे त्रिपञ्चाशस्सर्गः।।

Series Navigation<< ஸுந்தரகாண்டம் ஐம்பத்தி இரண்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 52nd sargam audio mp3ஸுந்தரகாண்டம் ஐம்பத்தி நான்காவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 54th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.