Categories
Narayaneeyam

நாராயணீயம் ஐம்பத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 57th Dashakam audio mp3

நாராயணீயம் ஐம்பத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 57th Dashakam audio mp3

Have given the 57th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये सप्तपञ्चाशं दशकम्

रामसख: क्वापि दिने, कामद भगवन्, गतो भवान् विपिनम् ।

सूनुभिरपि गोपानां, धेनुभि:, अभिसंवृतो, लसद्वेष: ॥ १ ॥

 

सन्दर्शयन् बलाय, स्वैरं बृन्दावनश्रियं, विमलाम् ।

काण्डीरै: सह बालै:, भाण्डीरकं, आगमो वटं क्रीडन् ॥ २ ॥

 

तावत्तावकनिधनस्पृहयालु:, गोपमूर्ति:, अदयालु: ।

दैत्य: प्रलम्बनामा, प्रलम्बबाहुं, भवन्तमापेदे ॥ ३ ॥

 

जानन्नप्यविजानन्निव, तेन समं, निबद्धसौहार्द: ।

वटनिकटे, पटुपशुपव्याबद्धं, द्वन्द्वयुद्धम्, आरब्धा: ॥ ४ ॥

 

गोपान् विभज्य तन्वन्, सङ्घं, बलभद्रकं, भवत्कमपि ।

त्वद्बलभीतं दैत्यं, त्वद्बलगतं, अन्वमन्यथा भगवन् ॥ ५ ॥

 

कल्पितविजेतृवहने समरे, परयूथगं, स्वदयिततरम् ।

श्रीदामानं, अधत्था:, पराजितो, भक्तदासतां प्रथयन् ॥ ६ ॥

 

एवं बहुषु विभूमन्, बालेषु वहत्सु वाह्यमानेषु ।

रामविजित: प्रलम्बो, जहार तं, दूरतो भवद्भीत्या ॥ ७ ॥

 

त्वद्दूरं गमयन्तं तं, दृष्ट्वा हलिनि, विहितगरिमभरे ।

दैत्य:, स्वरूपमागात्, यद्रूपात्, स हि बलोऽपि, चकितोऽभूत् ॥ ८ ॥

 

उच्चतया दैत्यतनो:, त्वन्मुखमालोक्य दूरतो राम: ।

विगतभयो दृढमुष्ट्या, भृशदुष्टं, सपदि पिष्टवानेनम् ॥ ९ ॥

 

हत्वा दानववीरं, प्राप्तं बलं, आलिलिङ्गिथ प्रेम्णा ।

तावन्मिलतोर्युवयो:, शिरसि कृता, पुष्पवृष्टि:, अमरगणै: ॥ १० ॥

 

आलम्बो भुवनानां, प्रालम्बं निधनमेवं, आरचयन् ।

कालं विहाय, सद्य:, लोलम्बरुचे, हरे, हरे: क्लेशान् ॥ ११ ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये सप्तपञ्चाशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 57th dashakam.

Series Navigation<< நாராயணீயம் ஐம்பத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 56th Dashakam audio mp3நாராயணீயம் ஐம்பத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 58th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.