Categories
Narayaneeyam

நாராயணீயம் ஐம்பத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 58th Dashakam audio mp3

நாராயணீயம் ஐம்பத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 58th Dashakam audio mp3

Have given the 58th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये अष्टपञ्चाशं दशकम्

त्वयि विहरणलोले, बालजालै: प्रलम्बप्रमथन,सविलम्बे, धेनव:, स्वैरचारा: ।
तृणकुतुकनिविष्टा:, दूरदूरं चरन्त्य:, किमपि विपिनं, ऐषीकाख्यं, ईषांबभूवु: ॥१॥

अनधिगतनिदाघक्रौर्य,बृन्दावनान्तात्, बहिरिदं, उपयाता: काननं, धेनवस्ता: ।
तव विरहविषण्णा:, ऊष्मलग्रीष्मताप,प्रसरविसरदम्भस्याकुला:, स्तम्भं, आपु: ॥२॥

तदनु, सह सहायै:, दूरमन्विष्य शौरे, गलितसरणि, मुञ्जारण्य,सञ्जात,खेदम् ।
पशुकुलं, अभिवीक्ष्य, क्षिप्रम् आनेतुम्, आरात्, त्वयि गतवति ही ही, सर्वतोऽग्नि:, जजृम्भे ॥३॥

सकलहरिति दीप्ते, घोरभाङ्कारभीमे, शिखिनि विहतमार्गा:, अर्धदग्धा:, इवार्ता: ।
अहह, भुवनबन्धो, पाहि पाहीति, सर्वे, शरणमुपगतास्त्वां, तापहर्तारं, एकम् ॥४॥

अलमलं, अतिभीत्या, सर्वतो मीलयध्वं, दृशमिति तव वाचा, मीलिताक्षेषु, तेषु ।
क्व नु, दवदहनोऽसौ, कुत्र मुञ्जाटवी सा, सपदि, ववृतिरे ते हन्त, भाण्डीरदेशे ॥५॥

जय जय, तव माया केयं, ईशेति तेषां, नुतिभि:, उदितहासो, बद्धनानाविलास: ।
पुनरपि विपिनान्ते प्राचर:, पाटलादि-प्रसवनिकरमात्रग्राह्य,घर्मानु,भावे ॥६॥

त्वयि विमुखमिव, उच्चैस्तापभारं वहन्तं, तव भजनवत्, अन्त: पङ्कं, उच्छोषयन्तम् ।
तव भुजवत्, उदञ्चत् भूरितेज:प्रवाहं, तपसमयं, अनैषी:, यामुनेषु स्थलेषु ॥७॥

तदनु जलदजालै:, त्वद्वपुस्तुल्यभाभि:, विकसदमल,विद्युत्पीतवासोविलासै: ।
सकलभुवनभाजां, हर्षदां वर्षवेलां, क्षितिधरकुहरेषु, स्वैरवासी, व्यनैषी: ॥८॥

कुहरतलनिविष्टं, त्वां गरिष्ठं, गिरीन्द्र:, शिखिकुल,नवकेकाकाकुभि:, स्तोत्रकारी ।
स्फुटकुटज,कदम्बस्तोमपुष्पाञ्जलिं च, प्रविदधत्, अनुभेजे, देव, गोवर्धनोऽसौ ॥९॥

अथ शरदमुपेतां तां, भवद्भक्तचेतो, विमलसलिलपूरां, मानयन् काननेषु ।
तृणं, अमलवनान्ते, चारु सञ्चारयन् गा:, पवनपुरपते त्वं, देहि मे, देहसौख्यम् ॥१०॥

ॐ तत्सदिति श्रीमन्नारायणीये अष्टपञ्चाशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 58th dashakam.

Series Navigation<< நாராயணீயம் ஐம்பத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 57th Dashakam audio mp3நாராயணீயம் ஐம்பத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 59th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.