Categories
Narayaneeyam

நாராயணீயம் ஐம்பத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 59th Dashakam audio mp3

நாராயணீயம் ஐம்பத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 59th Dashakam audio mp3

Have given the 59th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये एकोनषष्टितमं दशकम्

त्वद्वपुर्नवकलायकोमलं, प्रेमदोहनं, अशेषमोहनम् ।
ब्रह्म तत्वपरचिन्मुदात्मकं, वीक्ष्य सम्मुमुहु:, अन्वहं स्त्रिय: ॥ १ ॥

मन्मथोन्मथितमानसा: क्रमात्, त्वद्विलोकनरता:, ततस्तत: ।
गोपिकास्तव, न सेहिरे, हरे, काननोपगतिमपि, अहर्मुखे ॥ २ ॥

निर्गते भवति, दत्तदृष्टय:, त्वद्गतेन मनसा, मृगेक्षणा: ।
वेणुनादमुपकर्ण्य दूरत:, त्वद्विलासकथयाऽभिरेमिरे ॥ ३ ॥

काननान्तं, इतवान् भवानपि, स्निग्धपादपतले मनोरमे ।
व्यत्ययाकलितपादमास्थित:, प्रत्यपूरयत, वेणुनालिकाम् ॥ ४ ॥

मारबाणधृतखेचरीकुलं, निर्विकारपशुपक्षिमण्डलम् ।
द्रावणं च दृषदामपि, प्रभो, तावकं व्यजनि, वेणुकूजितम् ॥ ५ ॥

वेणुरन्ध्रतरलाङ्गुलीदलं, तालसञ्चलितपादपल्लवम् ।
तत् स्थितं, तव परोक्षमप्यहो, संविचिन्त्य, मुमुहुर्व्रजाङ्गना: ॥ ६ ॥

निर्विशङ्कभवदङ्गदर्शिनी:, खेचरी: खगमृगान्, पशूनपि ।
त्वत्पदप्रणयि काननं च ता:, धन्यधन्यमिति, नन्वमानयन् ॥ ७ ॥

आपिबेयं, अधरामृतं कदा, वेणुभुक्तरसशेषमेकदा ।
दूरतो बत कृतं दुराशयेति, आकुला मुहुरिमा: समामुहन् ॥ ८ ॥

प्रत्यहं च, पुनरित्थमङ्गना:, चित्तयोनिजनितात्, अनुग्रहात् ।
बद्धरागविवशास्त्वयि, प्रभो, नित्यमापुरिह, कृत्यमूढताम् ॥ ९ ॥

रागस्तावत्, जायते हि स्वभावात्,
मोक्षोपायो, यत्नत:, स्यात्, न वा स्यात् ।
तासां त्वेकं, तत्, द्वयं, लब्धमासीत्,
भाग्यं भाग्यं, पाहि, मां मारुतेश ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये एकोनषष्टितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 59th dashakam.

Series Navigation<< நாராயணீயம் ஐம்பத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 58th Dashakam audio mp3நாராயணீயம் அறுபதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 60th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.