Categories
Narayaneeyam

நாராயணீயம் அறுபதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 60th Dashakam audio mp3

நாராயணீயம் அறுபதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 60th Dashakam audio mp3

Have given the 60th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये षष्टितमं दशकम्

मदनातुरचेतसोऽन्वहं, भवदङ्घ्रिद्वयदास्यकाम्यया ।
यमुनातटसीम्नि सैकतीं, तरलाक्ष्यो गिरिजां, समार्चिचन् ॥ १ ॥

तव नामकथारता: समं, सुदृश: प्रातरुपागता नदीम् ।
उपहारशतै:, अपूजयन्, दयितो नन्दसुतो, भवेदिति ॥ २ ॥

इति मासं, उपाहितव्रता:, तरलाक्षी:, अभिवीक्ष्य ता भवान् ।
करुणामृदुलो नदीतटं, समयासीत्, तदनुग्रहेच्छया ॥ ३ ॥

नियमावसितौ निजाम्बरं, तटसीमन्यवमुच्य तास्तदा ।
यमुनाजलखेलनाकुला:, पुरतस्त्वां, अवलोक्य लज्जिता: ॥ ४ ॥

त्रपया, नमिताननास्वथो, वनितास्वम्बरजालमन्तिके ।
निहितं परिगृह्य भूरुहो विटपं त्वं, तरसाऽधिरूढवान् ॥ ५ ॥

इह तावत्, उपेत्य नीयतां वसनं व: सुदृशो, यथायथम् ।
इति नर्ममृदुस्मिते त्वयि ब्रुवति, व्यामुमुहे वधूजनै: ॥ ६ ॥

अयि जीव चिरं, किशोर, नस्तव दासी:, अवशीकरोषि किम् ।
प्रदिशाम्बरं, अम्बुजेक्षणेति, उदितस्त्वं, स्मितमेव दत्तवान् ॥ ७ ॥

अधिरुह्य तटं, कृताञ्जली:, परिशुद्धा:, स्वगतीर्निरीक्ष्य ता: ।
वसनान्यखिलान्यनुग्रहं, पुनरेवं गिरमप्यदा, मुदा ॥ ८ ॥

विदितं ननु वो, मनीषितं, वदितारस्त्विह योग्यमुत्तरम् ।
यमुनापुलिने, सचन्द्रिका:, क्षणदा:, इत्यबलास्त्वमूचिवान् ॥ ९ ॥

उपकर्ण्य, भवन्मुखच्युतं, मधुनिष्यन्दि वचो मृगीदृश: ।
प्रणयादयि, वीक्ष्य वीक्ष्य ते वदनाब्जं, शनकै:, गृहं गता: ॥ १० ॥

इति नन्वनुगृह्य वल्लवी:, विपिनान्तेषु पुरेव सञ्चरन् ।
करुणाशिशिरो, हरे, हर त्वरया मे, सकलामयावलिम् ॥ ११ ॥

ॐ तत्सदिति श्रीमन्नारायणीये षष्टितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 60th dashakam.

Series Navigation<< நாராயணீயம் ஐம்பத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 59th Dashakam audio mp3நாராயணீயம் அறுபத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 61st Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.