Categories
Narayaneeyam

நாராயணீயம் எழுபதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 70th Dashakam audio mp3

நாராயணீயம் எழுபதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 70th Dashakam audio mp3

Have given the 70th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये सप्ततितमं दशकम्

इति त्वयि रसाकुलं, रमितवल्लभे वल्लवा:,
कदापि पुरं, अम्बिकाकमितु:, अम्बिकाकानने ।
समेत्य भवता समं, निशि निषेव्य दिव्योत्सवं,
सुखं सुषुपु:, अग्रसीद्व्रजपं, उग्रनागस्तदा ॥ १ ॥

समुन्मुखमथोल्मुकै:, अभिहतेऽपि तस्मिन् बलात्,
अमुञ्चति, भवत्पदे, न्यपति, पाहि पाहीति, तै: ।
तदा खलु पदा भवान्, समुपगम्य पस्पर्श तं,
बभौ स च निजां तनुं, समुपसाद्य वैद्याधरीम् ॥ २ ॥

सुदर्शनधर प्रभो, ननु, सुदर्शनाख्योऽस्म्यहं,
मुनीन् क्वचिदपाहसं, त इह मां व्यधु:, वाहसम् ।
भवत्पदसमर्पणात्, अमलतां गतोऽस्मीत्यसौ,
स्तुवन् निजपदं ययौ, व्रजपदं च गोपा मुदा ॥ ३ ॥

कदापि खलु सीरिणा विहरति त्वयि, स्त्रीजनै:,
जहार धनदानुग:, स किल शङ्खचूडोऽबला: ।
अतिद्रुतमनुद्रुत:, तमथ मुक्तनारीजनं,
रुरोजिथ, शिरोमणिं, हलभृते च, तस्याददा: ॥ ४ ॥

दिनेषु च, सुहृज्जनैस्सह, वनेषु लीलापरं,
मनोभव, मनोहरं, रसित,वेणुनादामृतम् ।
भवन्तं, अमरीदृशां, अमृतपारणादायिनं,
विचिन्त्य, किमु नालपन्, विरहतापिता:, गोपिका: ॥ ५ ॥

भोजराजभृतकस्त्वथ कश्चित्, कष्टदुष्टपथदृष्टिररिष्ट: ।
निष्ठुराकृति:, अपष्ठुनिनादस्तिष्ठते स्म, भवते वृषरूपी ॥ ६ ॥

शाक्वरोऽथ जगतीधृतिहारी, मूर्तिमेव बृहतीं प्रदधान: ।
पङ्क्तिमाशु परिघूर्ण्य पशूनां, छन्दसां निधिं, अवाप भवन्तम् ॥ ७ ॥

तुङ्गशृङ्गमुखमाश्वभियन्तं, संगृहय्य रभसात्, अभियं तम् ।
भद्ररूपमपि, दैत्यमभद्रं, मर्दयन्, अमदय: सुरलोकम् ॥ ८ ॥

चित्रमद्य भगवन् वृषघातात्, सुस्थिराऽजनि वृषस्थितिरुर्व्याम् ।
वर्धते च वृषचेतसि भूयान् मोद:, इत्यभिनुतोऽसि सुरैस्त्वम् ॥ ९ ॥

औक्षकाणि परिधावत दूरं, वीक्ष्यतां, अयं इहोक्षविभेदी ।
इत्थमात्तहसितै: सह गोपै:, गेहगस्त्वमव, वातपुरेश ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये सप्ततितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 70th dashakam.

Series Navigation<< நாராயணீயம் அறுபத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 69th Dashakam audio mp3நாராயணீயம் எழுபத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 71st Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.