Categories
Narayaneeyam

நாராயணீயம் எழுபத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 71st Dashakam audio mp3

நாராயணீயம் எழுபத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 71st Dashakam audio mp3

Have given the 71st dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये एकसप्ततितमं दशकम्

यत्नेषु सर्वेष्वपि नावकेशी, केशी स भोजेशितु:, इष्टबन्धु: ।
त्वं सिन्धुजावाप्य इतीव मत्वा, सम्प्राप्तवान्, सिन्धुजवाजिरूप: ॥ १ ॥

गन्धर्वतां, एष गतोऽपि, रूक्षैर्नादै:, समुद्वेजितसर्वलोक: ।
भवद्विलोकावधि, गोपवाटीं, प्रमर्द्य पाप:, पुनरापतत्त्वाम् ॥ २ ॥

तार्क्ष्यार्पिताङ्घ्रे:, तव तार्क्ष्य एष:, चिक्षेप वक्षोभुवि, नाम पादम् ।
भृगो:, पदाघातकथां निशम्य, स्वेनापि शक्यं तत्, इतीव मोहात् ॥ ३ ॥

प्रवञ्चयन्, अस्य खुराञ्चलं द्राक्, अमुञ्च चिक्षेपिथ, दूरदूरम् ।
सम्मूर्च्छितोऽपि हि, अतिमूर्च्छितेन, क्रोधोष्मणा:, खादितुम्, आद्रुतस्त्वाम् ॥ ४ ॥

त्वं वाहदण्डे, कृतधीश्च वाहादण्डं, न्यधास्तस्य मुखे, तदानीम् ।
तद् वृद्धिरुद्धश्वसनो गतासु:, सप्तीभवन्नपि, अयमैक्यमागात् ॥ ५ ॥

आलम्भमात्रेण, पशो: सुराणां, प्रसादके, नूत्न इवाश्वमेधे ।
कृते, त्वया हर्षवशात् सुरेन्द्रा:, त्वां तुष्टुवु:, केशवनामधेयम् ॥ ६ ॥

कंसाय, ते शौरिसुतत्वमुक्त्वा, तं तद्वधोत्कं, प्रतिरुध्य वाचा ।
प्राप्तेन केशिक्षपणावसाने, श्रीनारदेन त्वं, अभिष्टुतोऽभू: ॥ ७ ॥

कदापि गोपै: सह, काननान्ते, निलायनक्रीडनलोलुपं त्वाम् ।
मयात्मज: प्राप दुरन्तमायो, व्योमाभिधो, व्योमचरोपरोधी ॥ ८ ॥

स चोरपालायितवल्लवेषु, चोरायितो, गोपशिशून् पशूंश्च ।
गुहासु कृत्वा, पिदधे शिलाभि:, त्वया च बुद्ध्वा, परिमर्दितोऽभूत् ॥ ९ ॥

एवं विधैश्च, अद्भुतकेलिभेदै:, आनन्दमूर्च्छां, अतुलां व्रजस्य ।
पदे पदे, नूतनयन्, असीमं, परात्मरूपिन्, पवनेश पाया: ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये एकसप्ततितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 71st dashakam.

Series Navigation<< நாராயணீயம் எழுபதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 70th Dashakam audio mp3நாராயணீயம் எழுபத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 72nd Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.