Categories
Narayaneeyam

நாராயணீயம் எழுபத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 72nd Dashakam audio mp3

நாராயணீயம் எழுபத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 72nd Dashakam audio mp3

Have given the 72nd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये द्विसप्ततितमं दशकम्

कंसोऽथ नारदगिरा, व्रजवासिनं त्वां, आकर्ण्य दीर्णहृदय:, स हि गान्दिनेयम् ।

आहूय, कार्मुकमखच्छलतो, भवन्तं, आनेतुं, एनमहिनोत्, अहिनाथशायिन् ॥ १ ॥

 

अक्रूर एष:, भवदंघ्रिपर:, चिराय, त्वद्दर्शनाक्षममना:, क्षितिपालभीत्या ।

तस्याज्ञयैव पुन:, ईक्षितुमुद्यतस्त्वां, आनन्दभारं, अतिभूरितरं, बभार ॥ २ ॥

 

सोऽयं रथेन, सुकृती, भवतो निवासं, गच्छन्, मनोरथगणान्, त्वयि धार्यमाणान् ।

आस्वादयन्, मुहु:, अपायभयेन, दैवं सम्प्रार्थयन्, पथि, न किञ्चिदपि व्यजानात् ॥ ३ ॥

 

द्रक्ष्यामि, वेदशतगीतगतिं, पुमांसं, स्प्रक्ष्यामि किंस्वित्, अपि नाम परिष्वजेयम् ।

किं वक्ष्यते, स खलु मां, क्वनु वीक्षित: स्यात्, इत्थं निनाय स:, भवन्मयमेव मार्गम् ॥ ४ ॥

 

भूय: क्रमात्, अभिविशन्, भवदंघ्रिपूतं, बृन्दावनं, हरविरिञ्चसुराभिवन्द्यम् ।

आनन्दमग्न इव, लग्न इव प्रमोहे, किं किं दशान्तरं, अवाप न, पङ्कजाक्ष ॥ ५ ॥

 

पश्यन्नवन्दत, भवद्विहृतिस्थलानि, पांसुषु, अवेष्टत, भवच्चरणाङ्कितेषु ।

किं ब्रूमहे, बहुजना हि, तदापि जाता:, एवं तु भक्तितरला:, विरला: परात्मन् ॥ ६ ॥

 

सायं स:, गोपभवनानि, भवच्चरित्रगीतामृतप्रसृत,कर्णरसायनानि ।

पश्यन्, प्रमोदसरितेव, किलोह्यमान:, गच्छन्, भवद्भवनसन्निधिं, अन्वयासीत् ॥ ७ ॥

 

तावद्ददर्श, पशुदोहविलोकलोलं, भक्तोत्तमागतिमिव, प्रतिपालयन्तम् ।

भूमन् भवन्तं, अयं, अग्रजवन्तं, अन्तर्ब्रह्मानुभूति,रससिन्धुं, इवोद्वमन्तम् ॥ ८ ॥

 

सायन्तनाप्लवविशेष,विविक्तगात्रौ, द्वौ, पीतनीलरुचिराम्बर,लोभनीयौ ।

नातिप्रपञ्च,धृतभूषण,चारुवेषौ, मन्दस्मितार्द्रवदनौ, स युवां ददर्श ॥ ९ ॥

 

दूरात्, रथात्समवरुह्य, नमन्तमेनं, उत्थाप्य भक्तकुलमौलिं, अथोपगूहन् ।

हर्षान्मिताक्षरगिरा, कुशलानुयोगी, पाणिं प्रगृह्य सबलोऽथ, गृहं निनेथ ॥ १० ॥

 

नन्देन साकं, अमितादरं, अर्चयित्वा, तं यादवं तदुदितां, निशमय्य वार्ताम् ।

गोपेषु, भूपतिनिदेशकथां निवेद्य, नानाकथाभि:, इह तेन निशामनैषी: ॥ ११ ॥

 

चन्द्रागृहे, किमुत चन्द्रभगागृहे नु, राधागृहे नु, भवने किमु मैत्रविन्दे ।

धूर्तो विलम्बत इति, प्रमदाभि:, उच्चैराशङ्कितो, निशि, मरुत्पुरनाथ पाया: ॥ १२ ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये द्विसप्ततितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 72nd dashakam.

Series Navigation<< நாராயணீயம் எழுபத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 71st Dashakam audio mp3நாராயணீயம் எழுபத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 73rd Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.