Categories
Stothra Parayanam Audio

குரு தசகம் ஒலிப்பதிவு; Guru dashakam audio mp3

குரு தசகம் ஒலிப்பதிவு; Guru dashakam audio mp3

ஸ்ரீ ஸ்ரீ விஜயேந்திர சரஸ்வதி சுவாமிகள் பட்டம் ஏற்றவுடன் ஸ்ரீ ஸ்ரீ மஹாபெரியவா குறித்து அருளிய குரு தசகம்.

॥ गुरुदशकम् ॥

श्रुति-स्मृति-पुराणोक्त-धर्ममार्गरतं गुरुम् ।
भक्तानां हितवक्तारं नमस्ये चित्तशुद्धये ।।१।।

अद्वैतानन्दभरितं साधूनां उपकारिणम् ।
सर्वशास्त्रविदं शान्तं नमस्ये चित्तशुद्धये ।।२।।

कर्म-भक्ति-ज्ञानमार्ग-प्रचारे बद्धकङ्कणम् ।
अनुग्रहप्रदातारं नमस्ये चित्तशुद्धये ।।३।।

भगवद्पाद-पादाब्ज-विनिवेषित-चेतसः ।
श्रीचन्द्रशेखरगुरो: प्रसादो मयि जायताम् ।।४।।

क्षेत्रतीर्थ-कथाभिज्ञः सच्चिदानन्दविग्रहः ।
चन्द्रशेखरवर्यो मे सन्निधत्तां सदाहृदि ।।५।।

पोषणे वेदशास्त्राणां दत्तचित्तमहर्निशम् ।
क्षेत्रयात्रारतं वन्दे सद्गुरुं चन्द्रशेखरम् ।।६।।

वेदज्ञान् वेदभाष्यज्ञान् कर्तुं यस्य समुद्यमः ।
गुरुर्यस्य महादेवः तं वन्दे चन्द्रशेखरम् ।।७।।

मणिवाचक-गोदादि भक्ति वागमृतैर्भृशम् ।
बालानां भगवद्भक्तिं वर्धयन्तं गुरुम् भजे ।।८।।

लघूपदेशै-र्नास्तिक्य-भावमर्दन-कोविदम् ।
शिवम्! स्मितमुखम्! शान्तम्! प्रणतोस्मि जगद्गुरुम् ।।९।।

विनयेन प्रार्थयेsहं विद्यां बोधय मे गुरो ।
मार्गमन्यं न जानेsहं भवन्तं शरणं गतः ।।१०।।

தமிழில் பொருளுடன் – https://mahaperiyavaa.blog/2016/04/03/hh-bala-periyava-dasakam-on-sri-maha-periyava/

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.