Categories
Narayaneeyam

நாராயணீயம் எண்பத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 88th Dashakam audio mp3

நாராயணீயம் எண்பத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 88th Dashakam audio mp3
Have given the 88th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये अष्टाशीतितमं दशकम्

प्रागेव, आचार्यपुत्राहृतिनिशमनया, स्वीयषट्सूनुवीक्षां,
काङ्क्षन्त्या:, मातुरुक्त्या, सुतलभुवि बलिं प्राप्य, तेनार्चितस्त्वम् ।
धातु: शापात्, हिरण्यान्वितकशिपुभवान्, शौरिजान् कंसभग्नात्,
आनीयैनान् प्रदर्श्य, स्वपदमनयथा:, पूर्वपुत्रान्, मरीचे: ॥ १ ॥

श्रुतदेव इति श्रुतं द्विजेन्द्रं, बहुलाश्वं नृपतिं च, भक्तिपूर्णम् ।
युगपत्, त्वमनुग्रहीतुकाम:, मिथिलां प्रापिथ, तापसै: समेत: ॥ २ ॥

गच्छन्, द्विमूर्ति:, उभयो:, युगपन्निकेतं, एकेन भूरिविभवै:, विहितोपचार: ।
अन्येन, तद्दिनभृतैश्च, फलौदनाद्यै:, तुल्यं प्रसेदिथ, ददाथ च, मुक्तिमाभ्याम् ॥ ३ ॥

भूयोऽथ द्वारवत्यां, द्विजतनयमृतिं, तत्प्रलापान् अपि त्वम्,
को वा दैवं निरुन्ध्यात्, इति किल कथयन्, विश्ववोढापि, असोढा: ।
जिष्णोर्गर्वं विनेतुं, त्वयि मनुजधिया, कुण्ठितां चास्य बुद्धिं,
तत्वारूढां, विधातुं, परमतमपदप्रेक्षणेनेति, मन्ये ॥ ४ ॥

नष्टा अष्टास्य पुत्रा:-पुनरपि तव तु, उपेक्षया कष्टवाद:,
स्पष्टो जातो जनानां, अथ, तदवसरे, द्वारकां, आर, पार्थ: ।
मैत्र्या तत्रोषितोऽसौ, नवमसुतमृतौ, विप्रवर्यप्ररोदं,
श्रुत्वा, चक्रे प्रतिज्ञां, अनुपहृतसुत:, सन्निवेक्ष्ये, कृशानुम् ॥ ५ ॥

मानी, स त्वामपृष्ट्वा, द्विजनिलयगतो, बाणजालैर्महास्त्रै:,
रुन्धानस्सूतिगेहं, पुनरपि सहसा, दृष्टनष्टे, कुमारे ।
याम्यां ऐन्द्रीं, तथाऽन्या:, सुरवरनगरी:, विद्ययाऽऽसाद्य सद्य:,
मोघोद्योग: पतिष्यन् हुतभुजि, भवता, सस्मितं, वारितोऽभूत् ॥ ६ ॥

सार्धं तेन प्रतीचीं दिशं, अतिजविना स्यन्दनेन, अभियातो
लोकालोकं, व्यतीतस्तिमिरभरमथो, चक्रधाम्ना, निरुन्धन् ।
चक्रांशुक्लिष्टदृष्टिं स्थितं, अथ विजयं, पश्य पश्येति, वारां
पारे त्वं, प्राददर्श:, किमपि हि तमसां, दूरदूरं पदं ते ॥ ७ ॥

तत्रासीनं, भुजङ्गाधिपशयनतले, दिव्यभूषायुधाद्यै:,
आवीतं, पीतचेलं, प्रतिनवजलदश्यामलं, श्रीमदङ्गम् ।
मूर्तीनां, ईशितारं, परमिह तिसृणां, एकमर्थं श्रुतीनां,
त्वामेव, त्वं परात्मन्, प्रियसखसहितो, नेमिथ, क्षेमरूपम् ॥ ८ ॥

युवां, मामेव द्वौ, अधिकविवृतान्तर्हिततया,
विभिन्नौ, सन्द्रष्टुं, स्वयमहमहार्षं, द्विजसुतान् ।
नयेतं, द्रागेतान्, इति खलु वितीर्णान् पुनरमून्,
द्विजाय, आदायादा:, प्रणुतमहिमा, पाण्डुजनुषा ॥ ९ ॥

एवं नानाविहारै:, जगदभिरमयन्, वृष्णिवंशं प्रपुष्णन्,
नीजानो यज्ञभेदै:, अतुलविहृतिभि:, प्रीणयन् एणनेत्रा: ।
भूभारक्षेपदम्भात्, पदकमलजुषां मोक्षणाय अवतीर्ण:,
पूर्णं ब्रह्मैव साक्षात्, यदुषु, मनुजतारूषित:, त्वं, व्यलासी: ॥ १० ॥

प्रायेण द्वारवत्यां अवृतत्, अयि तदा नारद:, त्वद्रसार्द्र:,
तस्मात्, लेभे कदाचित्खलु सुकृतनिधि:, त्वत्पिता तत्वबोधम् ।
भक्तानां, अग्रयायी, स च खलु मतिमान्, उद्धवस्त्वत्त एव
प्राप्तो, विज्ञानसारं, स किल जनहिताय, अधुनाऽऽस्ते बदर्याम् ॥११॥

सोऽयं कृष्णावतारो जयति, तव विभो, यत्र, सौहार्दभीति-,
स्नेहद्वेषानुराग,प्रभृतिभि:, अतुलै: अश्रमै:, योगभेदै: ।
आर्तिं तीर्त्वा समस्तां, अमृतपदमगु:, सर्वत: सर्वलोका:,
स त्वं, विश्वार्तिशान्त्यै, पवनपुरपते, भक्तिपूर्त्यै च, भूया: ॥१२॥

ॐ तत्सदिति श्रीमन्नारायणीये अष्टाशीतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 88th dashakam.

Series Navigation<< நாராயணீயம் எண்பத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 87th Dashakam audio mp3நாராயணீயம் எண்பத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 89th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.