Categories
Narayaneeyam

நாராயணீயம் எண்பத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 89th Dashakam audio mp3

நாராயணீயம் எண்பத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 89th Dashakam audio mp3
Have given the 89th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये एकोनानवतितमं दशकम्

रमाजाने जाने, यदिह तव भक्तेषु विभवो,
न सद्य:, सम्पद्य:, तदिह मदकृत्वात् अशमिनाम् ।
प्रशान्तिं कृत्वैव, प्रदिशसि, तत: काममखिलं,
प्रशान्तेषु क्षिप्रं, न खलु भवदीये, च्युतिकथा ॥ १ ॥

सद्य: प्रसादरुषितान्, विधिशङ्करादीन्,
केचिद्विभो, निजगुणानुगुणं, भजन्त: ।
भ्रष्टा भवन्ति बत, कष्टं, अदीर्घदृष्ट्या,
स्पष्टं वृकासुर:, उदाहरणं, किलास्मिन् ॥ २ ॥

शकुनिज: स तु नारदमेकदा, त्वरिततोषमपृच्छदधीश्वरम् ।
स च दिदेश गिरीशमुपासितुं, न तु भवन्तं, अबन्धुं, असाधुषु ॥ ३ ॥

तपस्तप्त्वा घोरं स खलु, कुपित: सप्तमदिने,
शिर: छित्वा सद्य:, पुरहरमुपस्थाप्य, पुरत: ।
अतिक्षुद्रं रौद्रं शिरसि, करधानेन निधनं,
जगन्नाथाद्वव्रे, भवति विमुखानां, क्व शुभधी: ॥ ४ ॥

मोक्तारं बन्धमुक्तो, हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं,
दैत्यात् भीत्या स्म देवो, दिशि दिशि वलते, पृष्ठतो दत्तदृष्टि: ।
तूष्णीके सर्वलोके, तव पदमधिरोक्ष्यन्तं, उद्वीक्ष्य शर्वं,
दूरादेवाग्रतस्त्वं, पटुवटुवपुषा, तस्थिषे, दानवाय ॥ ५ ॥

भद्रं ते शाकुनेय, भ्रमसि किमधुना, त्वं पिशाचस्य वाचा,
सन्देहश्चेन्मदुक्तौ, तव किमु न करोषि, अङ्गुलीं, अङ्ग मौलौ ।
इत्थं त्वद्वाक्यमूढ:, शिरसि कृतकर:, सोऽपतत्, छिन्नपातं,
भ्रंशो हि, एवं परोपासितु:, अपि च गति:, शूलिनोऽपि त्वमेव ॥ ६ ॥

भृगुं किल सरस्वतीनिकटवासिन:, तापसा:,
त्रिमूर्तिषु समादिशन्, अधिकसत्वतां वेदितुम् ।
अयं पुन:, अनादरात् उदितरुद्धरोषे विधौ,
हरेऽपि च, जिहिंसिषौ, गिरिजया, धृते, त्वामगात् ॥ ७ ॥

सुप्तं रमाङ्कभुवि, पङ्कजलोचनं त्वां, विप्रे विनिघ्नति पदेन, मुदोत्थितस्त्वम् ।
सर्वं क्षमस्व, मुनिवर्य, भवेत् सदा मे, त्वत्पादचिन्हं, इह भूषणमित्यवादी: ॥ ८ ॥

निश्चित्य ते च सुदृढं, त्वयि बद्धभावा:, सारस्वता:, मुनिवरा:, दधिरे, विमोक्षम् ।
त्वामेवमच्युत, पुनश्च्युतिदोषहीनं, सत्त्वोच्चयैकतनुमेव, वयं भजाम: ॥ ९ ॥

जगत्सृष्ट्यादौ, त्वां, निगमनिवहैर्वन्दिभिरिव,
स्तुतं विष्णो, सच्चित्परमरस,निर्द्वैतवपुषम् ।
परात्मानं भूमन्, पशुपवनिता,भाग्यनिवहं,
परीतापश्रान्त्यै, पवनपुरवासिन्, परिभजे ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये एकोननवतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 89th dashakam.

Series Navigation<< நாராயணீயம் எண்பத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 88th Dashakam audio mp3நாராயணீயம் தொண்ணூறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 90th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.