Categories
Narayaneeyam

நாராயணீயம் தொண்ணூறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 90th Dashakam audio mp3

நாராயணீயம் தொண்ணூறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 90th Dashakam audio mp3
Have given the 90th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये नवतितमं दशकम्

वृकभृगुमुनिमोहिन्यम्बरीषादि,वृत्तेषु,
अयि, तव हि महत्वं, सर्वशर्वादि,जैत्रम् ।
स्थितमिह, परमात्मन्, निष्कलार्वागभिन्नं,
किमपि तत्, अवभातं, तद्धि रूपं, तवैव ॥ १ ॥

मूर्तित्रयेश्वरसदाशिवपञ्चकं यत्, प्राहु: परात्मवपुरेव, सदाशिवोऽस्मिन् ।
तत्र, ईश्वरस्तु स विकुण्ठपदस्त्वमेव, त्रित्वं पुनर्भजसि, सत्यपदे त्रिभागे ॥ २ ॥

तत्रापि सात्त्विकतनुं, तव विष्णुमाहु:, धाता तु सत्वविरलो, रजसैव पूर्ण: ।
सत्वोत्कटत्वमपि चास्ति तमोविकार,चेष्टादिकञ्च तव, शङ्करनाम्नि मूर्तौ ॥ ३ ॥

तं च त्रिमूर्त्यतिगतं, परपूरुषं त्वां, शर्वात्मनापि खलु, सर्वमयत्वहेतो: ।
शंसन्त्युपासनविधौ, तदपि स्वतस्तु त्वद्रूपं, इत्यतिदृढं, बहु न: प्रमाणम् ॥ ४ ॥

श्रीशङ्करोऽपि भगवान्, सकलेषु तावत्, त्वामेव मानयति, यो, न हि पक्षपाती ।
त्वन्निष्ठमेव स हि, नामसहस्रकादि व्याख्यात्, भवत्स्तुतिपरश्च, गतिं गतोऽन्ते ॥ ५ ॥

मूर्तित्रयातिगं, उवाच च, मन्त्रशास्त्रस्य, आदौ कलायसुषमं, सकलेश्वरं त्वाम् ।
ध्यानं च निष्कलमसौ, प्रणवे खलूक्त्वा, त्वामेव तत्र सकलं, निजगाद नान्यम् ॥ ६ ॥

समस्तसारे च पुराणसङ्ग्रहे, विसंशयं त्वन्महिमैव वर्ण्यते ।
त्रिमूर्तियुक्सत्यपदत्रिभागत:, परं पदं ते कथितं, न शूलिन: ॥ ७ ॥

यत् ब्राह्मकल्प इह, भागवतद्वितीय-स्कन्धोदितं, वपुरनावृतमीश धात्रे ।
तस्यैव नाम, हरिशर्वमुखं जगाद, श्रीमाधव:, शिवपरोऽपि पुराणसारे ॥ ८ ॥

ये स्वप्रकृत्यनुगुणा:, गिरिशं भजन्ते, तेषां फलं हि, दृढयैव, तदीयभक्त्या।
व्यासो हि तेन कृतवान्, अधिकारिहेतो:, स्कन्दादिकेषु, तव हानिवचोऽर्थवादै: ॥ ९ ॥

भूतार्थकीर्ति:, अनुवादविरुद्धवादौ, त्रेधा, अर्थवादगतय: खलु, रोचनार्था: ।
स्कान्दादिकेषु, बहवोऽत्र विरुद्धवादा:, त्वत्तामसत्वपरिभूत्युपशिक्षणाद्या: ॥ १० ॥

यत् किञ्चिदपि, अविदुषाऽपि, विभो मयोक्तं, तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव ।
व्यासोक्तिसारमयभागवतोपगीता, क्लेशान् विधूय, कुरु भक्तिभरं परात्मन् ॥ ११ ॥

ॐ तत्सदिति श्रीमन्नारायणीये नवतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 90th dashakam.

Series Navigation<< நாராயணீயம் எண்பத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 89th Dashakam audio mp3நாராயணீயம் தொண்ணூற்று ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 91st Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.