Categories
Narayaneeyam

நாராயணீயம் தொண்ணூற்று ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 91st Dashakam audio mp3

நாராயணீயம் தொண்ணூற்று ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 91st Dashakam audio mp3
Have given the 91st dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये एकनवतितमं दशकम्

श्रीकृष्ण, त्वत्पदोपासनं, अभयतमं, बद्धमिथ्यार्थदृष्टे:,
मर्त्यस्य आर्तस्य मन्ये, व्यपसरति भयं, येन सर्वात्मनैव ।
यत्तावत् त्वत्प्रणीतान्, इह भजनविधीन्, आस्थितो मोहमार्गे,
धावन्नपि, आवृताक्ष:, स्खलति न कुहचित्, देवदेव, अखिलात्मन् ॥ १ ॥

भूमन् कायेन वाचा, मुहुरपि मनसा, त्वद्बलप्रेरितात्मा,
यद्यद्कुर्वे समस्तं, तदिह परतरे, त्वय्यसौ, अर्पयामि ।
जात्यापि, इह श्वपाक:, त्वयि निहितमन:कर्मवागिन्द्रियार्थ-
प्राण:, विश्वं पुनीते, न तु विमुखमना:, त्वत्पदात् विप्रवर्य: ॥ २ ॥

भीतिर्नाम, द्वितीयाद्भवति, ननु मन:कल्पितं च द्वितीयं,
तेन, ऐक्याभ्यासशीलो, हृदयमिह, यथाशक्ति, बुद्ध्या, निरुन्ध्याम् ।
मायाविद्धे तु तस्मिन् पुनरपि, न तथा भाति, मायाधिनाथं,
तत् त्वां भक्त्या महत्या, सततमनुभजन्, ईश, भीतिं, विजह्याम् ॥ ३ ॥

भक्ते:, उत्पत्तिवृद्धी, तव चरणजुषां, सङ्गमेनैव पुंसां,
आसाद्ये पुण्यभाजां, श्रिय इव जगति, श्रीमतां, सङ्गमेन ।
तत्सङ्गो देव, भूयान्मम खलु सततं, तन्मुखात्, उन्मिषद्भि:,
त्वन्माहात्म्यप्रकारै:, भवति च सुदृढा, भक्ति:, उद्धूतपापा ॥ ४ ॥

श्रेयोमार्गेषु भक्तौ, अधिकबहुमति:, जन्मकर्माणि, भूयो
गायन्, क्षेमाणि नामान्यपि, तदुभयत:, प्रद्रुतं, प्रद्रुतात्मा ।
उद्यद्धास: कदाचित्, कुहचिदपि रुदन्, क्वापि गर्जन् प्रगायन्,
उन्मादीव प्रनृत्यन्, अयि कुरु करुणां, लोकबाह्यश्चरेयम् ॥ ५ ॥

भूतान्येतानि भूतात्मकमपि सकलं, पक्षिमत्स्यान् मृगादीन्,
मर्त्यान् मित्राणि शत्रूनपि, यमितमतिस्त्वन्मयानि, आनमानि ।
त्वत्सेवायां हि सिद्ध्येत्, मम, तव कृपया, भक्तिदार्ढ्यं, विराग:,
त्वत्तत्वस्यावबोधोऽपि च, भुवनपते, यत्नभेदं, विनैव ॥ ६ ॥

नो मुह्यन् क्षुत्तृडाद्यै:, भवसरणिभवै:, त्वन्निलीनाशयत्वात्,
चिन्तासातत्यशाली, निमिषलवमपि, त्वत्पदात्, अप्रकम्प: ।
इष्टानिष्टेषु, तुष्टिव्यसनविरहितो, मायिकत्वावबोधात्,
ज्योत्स्नाभि:, त्वन्नखेन्दो:, अधिकशिशिरितेन, आत्मना, सञ्चरेयम् ॥ ७ ॥

भूतेषु, एषु त्वदैक्यस्मृतिसमधिगतौ, नाधिकारोऽधुना चेत्,
त्वत्प्रेम, त्वत्कमैत्री, जडमतिषु कृपा, द्वित्सु भूयात्, उपेक्षा ।
अर्चायां वा समर्चाकुतुकं, उरुतरश्रद्धया, वर्धतां मे,
त्वत्संसेवी, तथापि, द्रुतमुपलभते, भक्तलोकोत्तमत्वम् ॥ ८ ॥

आवृत्य त्वत्स्वरूपं, क्षितिजलमरुदाद्यात्मना, विक्षिपन्ती,
जीवान्, भूयिष्ठकर्मावलिविवश,गतीन्, दु:खजाले, क्षिपन्ती ।
त्वन्माया, माभिभून्मां, अयि भुवनपते, कल्पते तत्प्रशान्त्यै,
त्वत्पादे, भक्तिरेवेत्यवदत्, अयि विभो, सिद्धयोगी प्रबुद्ध: ॥ ९ ॥

दु:खानि, आलोक्य जन्तुषु, अलं, उदितविवेक:, अहं, आचार्यवर्यात्,
लब्ध्वा, त्वद्रूपतत्वं, गुणचरित,कथाद्युद्भवत्, भक्तिभूमा ।
मायामेनां तरित्वा, परमसुखमये, त्वत्पदे, मोदिताहे,
तस्यायं, पूर्वरङ्ग: पवनपुरपते, नाशय, अशेषरोगान् ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये एकनवतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 91st dashakam.

Series Navigation<< நாராயணீயம் தொண்ணூறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 90th Dashakam audio mp3நாராயணீயம் தொண்ணூற்று இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 92nd Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.