Categories
Narayaneeyam

நாராயணீயம் தொண்ணூற்று இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 92nd Dashakam audio mp3

நாராயணீயம் தொண்ணூற்று இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 92nd Dashakam audio mp3
Have given the 92nd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये द्विनवतितमं दशकम्

वेदैस्सर्वाणि कर्माणि, अफलपरतया, वर्णितानीति बुध्वा,
तानि त्वय्यर्पितान्येव हि, समनुचरन्, यानि, नैष्कर्म्यमीश ।
मा भूत्, वेदैर्निषिद्धे, कुहचिदपि मन:कर्मवाचां, प्रवृत्ति-
र्दुर्वर्जं चेत्, अवाप्तं, तदपि खलु, भवति अर्पये चित्प्रकाशे ॥ १ ॥

यस्त्वन्य: कर्मयोगस्तव भजनमय:, तत्र चाभीष्टमूर्तिं,
हृद्यां सत्वैकरूपां, दृषदि हृदि मृदि, क्वापि वा, भावयित्वा ।
पुष्पै:, गन्धै:, निवेद्यै:, अपि च विरचितै: शक्तितो भक्तिपूतै:,
नित्यं वर्यां सपर्यां, विदधत्, अयि विभो, त्वत्प्रसादं भजेयम् ॥ २ ॥

स्त्रीशूद्रा:, त्वत्कथादिश्रवणविरहिता:, आसतां, ते दयार्हा:,
त्वत्पादासन्नयातान्, द्विजकुलजनुषो, हन्त, शोचामि, अशान्तान् ।
वृत्यर्थं ते यजन्त:, बहुकथितमपि, त्वामनाकर्णयन्त:,
दृप्ता:, विद्याभिजात्यै:, किमु न विदधते, तादृशं, मा कृथा माम् ॥ ३ ॥

पापोऽयं कृष्ण,राम, इत्यभिलपति, निजं गूहितुं दुश्चरित्रं,
निर्लज्जस्यास्य वाचा, बहुतरकथनीयानि मे, विघ्नितानि ।
भ्राता मे वन्ध्यशीलो, भजति किल सदा विष्णुं, इत्थं बुधान्, ते
निन्दन्ति, उच्चैर्हसन्ति, त्वयि निहितमतीन्, तादृशं, मा कृथा माम् ॥ ४ ॥

श्वेतच्छायं कृते त्वां, मुनिवरवपुषं प्रीणयन्ते, तपोभि:,
त्रेतायां, स्रुक्स्रुवाद्यङ्कितं, अरुणतनुं, यज्ञरूपं, यजन्ते ।
सेवन्ते तन्त्रमार्गै:, विलसदरिगदं द्वापरे, श्यामलाङ्गं,
नीलं सङ्कीर्तनाद्यै:, इह कलिसमये, मानुषा:, त्वां भजन्ते ॥ ५ ॥

सोऽयं कालेयकालो जयति, मुररिपो यत्र, सङ्कीर्तनाद्यै:
निर्यत्नैरेव मार्गै:, अखिलदा, न चिरात्, त्वत्प्रसादं भजन्ते ।
जाता:, त्रेताकृतादावपि हि किल, कलौ सम्भवं कामयन्ते,
दैवात्, तत्रैव जातान्, विषयविषरसै:, मा विभो, वञ्चयास्मान् ॥ ६ ॥

भक्तास्तावत्कलौ स्यु:, द्रमिलभुवि ततो भूरिश:, तत्र चोच्चै:,
कावेरीं, ताम्रपर्णीं, अनु किल कृतमालां च, पुण्यां, प्रतीचीम् ।
हा मामपि, एतत् अन्तर्भवं, अपि च विभो, किञ्चिदञ्चद्रसं त्वयि,
आशापाशैर्निबध्य, भ्रमय न, भगवन्, पूरय, त्वन्निषेवाम् ॥ ७ ॥

दृष्ट्वा धर्मद्रुहं तं, कलिमपकरुणं, प्राङ्महीक्षित् परीक्षित्,
हन्तुं व्याकृष्टखड्गोऽपि, न विनिहतवान्, सारवेदी, गुणांशात् ।
त्वत्सेवादि, आशु सिद्ध्येत्, असदिह न तथा, त्वत्परे चैष भीरु:,
यत्तु प्रागेव रोगादिभि:, अपहरते, तत्र हा, शिक्षयैनम् ॥ ८ ॥

गङ्गा गीता च गायत्री, अपि च तुलसिका, गोपिकाचन्दनं तत्,
सालग्रामाभिपूजा, परपुरुष तथा, एकादशी, नामवर्णा: ।
एतानि, अष्टापि अयत्नानि, अयि कलिसमये, त्वत्प्रसादप्रवृद्ध्या,
क्षिप्रं मुक्तिप्रदानीति, अभिदधु:, ऋषय:, तेषु, मां सज्जयेथा: ॥ ९ ॥

देवर्षीणां पितॄणां, अपि न पुन:, ऋणी किङ्करो वा, स भूमन्,
योऽसौ, सर्वात्मना, त्वां, शरणमुपगत:, सर्वकृत्यानि, हित्वा ।
तस्योत्पन्नं विकर्माणि, अखिलमपनुदस्येव, चित्तस्थितस्त्वं,
तन्मे पापोत्थतापान्, पवनपुरपते, रुन्धि, भक्तिं प्रणीया: ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये द्विनवतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 92nd dashakam.

Series Navigation<< நாராயணீயம் தொண்ணூற்று ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 91st Dashakam audio mp3நாராயணீயம் தொண்ணூற்று மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 93rd Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.