Categories
Narayaneeyam

நாராயணீயம் தொண்ணூற்று மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 93rd Dashakam audio mp3

நாராயணீயம் தொண்ணூற்று மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 93rd Dashakam audio mp3
Have given the 93rd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये त्रिनवतितमं दशकम्

बन्धुस्नेहं विजह्यां, तव हि करुणया, त्वय्युपावेशितात्मा,
सर्वं त्यक्त्वा चरेयं, सकलमपि जगद्वीक्ष्य, मायाविलासम् ।
नानात्वात्, भ्रान्तिजन्यात्, सति खलु गुणदोषावबोधे, विधिर्वा
व्यासेधो वा, कथं तौ, त्वयि निहितमते:, वीतवैषम्यबुद्धे: ॥ १ ॥

क्षुत्तृष्णालोपमात्रे, सततकृतधियो जन्तव: सन्ति, अनन्ता:
तेभ्यो, विज्ञानवत्वात्, पुरुष इह वर:, तज्जनि:, दुर्लभैव ।
तत्रापि आत्मात्मनस्स्यात्, सुहृदपि च रिपु:, यस्त्वयि न्यस्तचेता:,
तापोच्छित्तेरुपायं स्मरति, स हि सुहृत्, स्वात्मवैरी, ततोऽन्य: ॥ २ ॥

त्वत्कारुण्ये प्रवृत्ते, क इव नहि गुरु:, लोकवृत्ते विभूमन्,
सर्वाक्रान्तापि भूमि:, नहि चलति तत:, सत्क्षमां, शिक्षयेयम् ।
गृह्णीयामीश, तत्तद्विषयपरिचयेsपि, अप्रसक्तिं समीरात्,
व्याप्तत्वं चात्मनो मे, गगनगुरुवशात्, भातु निर्लेपता च ॥ ३ ॥

स्वच्छ: स्यां पावनोऽहं, मधुर उदकवत्, वह्निवत्, मा स्म गृह्णां,
सर्वान्नीनोऽपि दोषं, तरुषु तमिव मां, सर्वभूतेषु अवेयाम् ।
पुष्टिर्नष्टि: कलानां, शशिन इव तनो:, नात्मनोऽस्तीति विद्यां,
तोयादिव्यस्तमार्ताण्डवत्, अपि च तनुषु, एकतां त्वत्प्रसादात् ॥ ४ ॥

स्नेहात्, व्याधास्तपुत्रव्यसनमृतकपोतायितो, मा स्म भूवं
प्राप्तं, प्राश्नन् सहेय क्षुधमपि शयुवत्, सिन्धुवत्स्यां अगाध: ।
मा पप्तं योषिदादौ, शिखिनि शलभवत्, भृङ्गवत्सारभागी,
भूयासं, किन्तु, तद्वत्, धनचयनवशात्, माहमीश, प्रणेशम् ॥ ५ ॥

मा बद्ध्यासं तरुण्या, गज इव वशया, नार्जयेयं धनौघं,
हर्तान्यस्तं हि, माध्वीहर इव, मृगवत्, मा मुहं, ग्राम्यगीतै: ।
नात्यासज्जेय भोज्ये, झष इव बडिशे, पिङ्गलावत् निराश:
सुप्यां, भर्तव्ययोगात्, कुरर इव विभो, सामिष:, अन्यै:, न हन्यै ॥ ६ ॥

वर्तेय त्यक्तमान: सुखम्, अतिशिशुवत्, निस्सहायश्चरेयं,
कन्याया एकशेषो, वलय इव विभो, वर्जितान्योन्य,घोष: ।
त्वच्चित्तो नावबुध्यै परं, इषुकृदिव क्ष्माभृदायानघोषं,
गेहेषु, अन्यप्रणीतेषु, अहिरिव निवसानि, उन्दुरोर्मन्दिरेषु ॥ ७ ॥

त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदिति, ऊर्णनाभात् प्रतीयां,
त्वच्चिन्ता, त्वत्स्वरूपं कुरुते, इति दृढं शिक्षये, पेशकारात् ।
विड्भस्मात्मा च देहो भवति गुरुवरो, यो विवेकं विरक्तिं
धत्ते, सञ्चिन्त्यमानो मम तु, बहुरुजापीडितोऽयं, विशेषात् ॥ ८ ॥

ही ही मे देहमोहं त्यज, पवनपुराधीश, यत्प्रेमहेतो:,
गेहे वित्ते कलत्रादिषु च, विवशिता:, त्वत्पदं, विस्मरन्ति ।
सोऽयं वह्नेश्शुनो वा, परमिह परत: साम्प्रतञ्च, अक्षिकर्ण-
त्वग्जिह्वाद्या विकर्षन्ति, अवशं, अत इत:, कोऽपि न, त्वत्पदाब्जे ॥ ९ ॥

दुर्वारो देहमोहो यदि पुन:, अधुना तर्हि निश्शेषरोगान्
हृत्वा, भक्तिं द्रढिष्ठां कुरु, तव पदपङ्केरुहे, पङ्कजाक्ष ।
नूनं नानाभवान्ते, समधिगतमिमं, मुक्तिदं विप्रदेहं,
क्षुद्रे हा हन्त, मा मा क्षिप, विषयरसे, पाहि मां मारुतेश ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये त्रिनवतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 93rd dashakam.

Series Navigation<< நாராயணீயம் தொண்ணூற்று இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 92nd Dashakam audio mp3நாராயணீயம் தொண்ணூற்று நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 94th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.