Categories
Narayaneeyam

நாராயணீயம் தொண்ணூற்று நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 94th Dashakam audio mp3

நாராயணீயம் தொண்ணூற்று நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 94th Dashakam audio mp3
Have given the 94th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये चतुर्नवतितमं दशकम्

शुद्धा:, निष्कामधर्मै: प्रवरगुरुगिरा, तत्स्वरूपं परं ते,
शुद्धं, देहेन्द्रियादिव्यपगतं, अखिलव्याप्तं, आवेदयन्ते ।
नानात्वस्थौल्यकार्श्यादि तु, गुणजवपुस्सङ्गतोऽध्यासितं ते,
वह्ने:, दारुप्रभेदेष्विव, महदणुतादीप्तता,शान्ततादि ॥ १ ॥

आचार्याख्याधरस्थारणि,समनुमिलच्छिष्यरूपोत्तरार-
ण्यावेधोद्भासितेन, स्फुटतर,परिबोधाग्निना, दह्यमाने ।
कर्मालीवासनातत्कृत,तनुभुवनभ्रान्तिकान्तारपूरे,
दाह्याभावेन, विद्याशिखिनि च विरते, त्वन्मयी खलु, अवस्था ॥ २ ॥

एवं त्वत्प्राप्तित:, अन्यो नहि खलु, निखिलक्लेशहानेरुपाय:,
नैकान्तात्यन्तिकास्ते कृषिवत्, अगदषाड्गुण्यषट्कर्म,योगा: ।
दुर्वैकल्यैरकल्या अपि, निगमपथा:, तत्फलान्यप्यवाप्ता:,
मत्ता:, त्वां विस्मरन्त: प्रसजति पतने, यान्त्यनन्तान्, विषादान्॥ ३ ॥

त्वल्लोकादन्यलोक: क्वनु, भयरहितो यत् परार्धद्वयान्ते,
त्वद्भीतस्सत्यलोकेऽपि, न सुखवसति: पद्मभू:, पद्मनाभ ।
एवं भावे तु, अधर्मार्जितबहुतमसां का कथा, नारकाणां,
तन्मे त्वं छिन्धि बन्धं, वरद, कृपणबन्धो, कृपापूर,सिन्धो ॥ ४ ॥

याथार्थ्यात्त्वन्मयस्यैव हि, मम न विभो वस्तुतो, बन्धमोक्षौ,
मायाविद्यातनुभ्यां, तव तु विरचितौ, स्वप्नबोधोपमौ तौ ।
बद्धे जीवद्विमुक्तिं, गतवति च भिदा तावती, तावदेको
भुङ्क्ते, देहद्रुमस्थो, विषयफलरसान्, नापरो निर्व्यथात्मा ॥ ५ ॥

जीवन्मुक्तत्वं, एवंविधमिति वचसा किं फलं, दूरदूरे,
तन्नाम, अशुद्धबुद्धे:, न च लघु मनसश्शोधनं, भक्तितोऽन्यत् ।
तन्मे विष्णो कृषीष्ठा:, त्वयि कृतसकलप्रार्पणं भक्तिभारं,
येन स्यां मङ्क्षु, किञ्चिद् गुरुवचनमिलत्त्वत्प्रबोध:, त्वदात्मा ॥ ६ ॥

शब्द्ब्रह्मण्यपीह प्रयतितमनस:, त्वां न जानन्ति केचित्,
कष्टं, वन्ध्यश्रमास्ते चिरतरमिह गां बिभ्रते, निष्प्रसूतिम् ।
यस्यां विश्वाभिरामा:, सकलमलहरा:, दिव्यलीलावतारा:,
सच्चित्सान्द्रं च रूपं, तव न निगदितं, तां न वाचं, भ्रियासम् ॥ ७ ॥

यो यावान् यादृशो वा त्वमिति किमपि, नैवावगच्छामि भूमन्,
एवं च, अनन्यभावस्त्वदनुभजनमेव, आद्रिये, चैद्यवैरिन् ।
त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां, दर्शनस्पर्शनादि:,
भूयान्मे, त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ॥ ८ ॥

यद्यल्लभ्येत तत्तत्तव समुपहृतं देव, दासोऽस्मि तेऽहं,
त्वद्गेहोन्मार्जनाद्यं भवतु, मम, मुहु: कर्म निर्मायमेव ।
सूर्याग्निब्राह्मणात्मादिषु, लसितचतुर्बाहुमाराधये त्वां,
त्वत्प्रेमार्द्रत्वरूपो, मम सततमभिष्यन्दतां, भक्तियोग: ॥ ९ ॥

ऐक्यं ते, दानहोमव्रतनियम,तपस्सांख्ययोगैर्दुरापं,
त्वत्सङ्गेनैव गोप्य: किल, सुकृतितमा प्रापु:, आनन्दसान्द्रम् ।
भक्तेषु अन्येषु भूयस्स्वपि, बहुमनुषे, भक्तिमेव त्वमासां,
तन्मे त्वद्भक्तिमेव द्रढय, हर गदान्, कृष्ण, वातालयेश ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये चतुर्नवतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 94th dashakam.

Series Navigation<< நாராயணீயம் தொண்ணூற்று மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 93rd Dashakam audio mp3நாராயணீயம் தொண்ணூற்று ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 95th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.