Categories
Narayaneeyam

நாராயணீயம் தொண்ணூற்று ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 95th Dashakam audio mp3

நாராயணீயம் தொண்ணூற்று ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 95th Dashakam audio mp3
Have given the 95th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये पञ्चनवतितमं दशकम्

आदौ हैरण्यगर्भीं तनुं, अविकलजीवात्मिकामास्थितस्त्वं,
जीवत्वं प्राप्य मायागुणगणखचितो, वर्तसे विश्वयोने ।
तत्रोद्वृद्धेन सत्वेन तु, गुणयुगलं भक्तिभावं गतेन,
छित्वा सत्वं च हित्वा पुन:, अनुपहितो वर्तिताहे, त्वमेव ॥ १ ॥

सत्वोन्मेषात् कदाचित् खलु विषयरसे, दोषबोधेऽपि भूमन्,
भूयोऽप्येषु प्रवृत्ति:, सतमसि रजसि प्रोद्धते, दुर्निवारा ।
चित्तं तावद्गुणाश्च ग्रथितं, इह मिथ:, तानि सर्वाणि रोद्धुं,
तुर्ये त्वय्येकभक्तिश्शरणमिति भवान्, हंसरूपी न्यगादीत् ॥ २ ॥

सन्ति श्रेयांसि भूयांसि, अपि रुचिभिदया कर्मिणां, निर्मितानि,
क्षुद्रानन्दाश्च सान्ता:, बहुविधगतय: कृष्ण, तेभ्यो भवेयु: ।
त्वं चाचख्याथ सख्ये, ननु महिततमां श्रेयसां, भक्तिमेकां,
त्वद्भक्त्यानन्दतुल्य: खलु, विषयजुषां, सम्मद: केन वा स्यात् ॥ ३ ॥

त्वत्भक्त्या तुष्टबुद्धे:, सुखमिह चरतो विच्युताशस्य च, आशा:,
सर्वा: स्यु: सौख्यमय्य:, सलिलकुहरगस्येव, तोयैकमय्य: ।
सोऽयं खलु, इन्द्रलोकं कमलजभवनं, योगसिद्धीश्च हृद्या:,
नाकाङ्क्षत्येतदास्तां, स्वयमनुपतिते, मोक्षसौख्येपि, अनीह: ॥ ४ ॥

त्वद्भक्तो बाध्यमानोऽपि च, विषयरसै:, इन्द्रियाशान्तिहेतो:,
भक्त्यैव, आक्रम्यमाणै: पुनरपि खलु तै:, दुर्बलै:, नाभिजय्य: ।
सप्तार्चि:, दीपितार्चिर्दहति किल यथा भूरिदारुप्रपञ्चं,
त्वद्भक्त्योघे तथैव प्रदहति दुरितं, दुर्मद: क्वेन्द्रियाणाम् ॥ ५ ॥

चित्तार्द्रीभावं, उच्चैर्वपुषि च पुलकं, हर्षवाष्पं च हित्वा,
चित्तं शुद्ध्येत्कथं वा, किमु बहुतपसा, विद्यया वीतभक्ते: ।
त्वद्गाथास्वादसिद्धाञ्जन,सततमरीमृज्यमानोऽयमात्मा,
चक्षुर्वत्तत्वसूक्ष्मं भजति, न तु तथा, अभ्यस्तया, तर्ककोट्या ॥ ६ ॥

ध्यानं ते शीलयेयं, समतनुसुखबद्धासनो, नासिकाग्र-
न्यस्ताक्ष:, पूरकाद्यै:, जितपवनपथ:, चित्तपद्मं तु, अवाञ्चम् ।
ऊर्ध्वाग्रं भावयित्वा, रविविधुशिखिन:, संविचिन्त्य, उपरिष्टात्
तत्रस्थं भावये त्वां, सजलजलधरश्यामलं, कोमलाङ्गम् ॥ ७ ॥

आनीलश्लक्ष्णकेशं, ज्वलितमकरसत्कुण्डलं, मन्दहास-
स्यन्दार्द्रं, कौस्तुभश्रीपरिगत,वनमालोरु,हाराभिरामम् ।
श्रीवत्साङ्कं सुबाहुं, मृदुलसदुदरं, काञ्चनच्छायचेलं,
चारुस्निग्धोरुं, अम्भोरुहललितपदं, भावयेऽहं भवन्तम् ॥ ८ ॥

सर्वाङ्गेषु, अङ्ग, रङ्गत्कुतुकं, इति मुहुर्धारयन्, ईश चित्तं
तत्रापि, एकत्र युञ्जे, वदनसरसिजे, सुन्दरे मन्दहासे ।
तत्रालीनं तु चेत: परमसुखचिदद्वैतरूपे, वितन्वन्,
अन्यन्नो चिन्तयेयं, मुहुरिति, समुपारूढयोगो, भवेयम् ॥ ९ ॥

इत्थं त्वद्ध्यानयोगे सति पुन:, अणिमाद्यष्टसंसिद्धयस्ता:,
दूरश्रुत्यादयोऽपि हि, अहमहमिकया, सम्पतेयु:, मुरारे ।
त्वत्सम्प्राप्तौ विलम्बावहं, अखिलमिदं नाद्रिये, कामयेऽहं
त्वामेव, आनन्दपूर्णं, पवनपुरपते पाहि मां, सर्वतापात् ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये पञ्चनवतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 95th dashakam.

Series Navigation<< நாராயணீயம் தொண்ணூற்று நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 94th Dashakam audio mp3நாராயணீயம் தொண்ணூற்று ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 96th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.