Categories
Narayaneeyam

நாராயணீயம் தொண்ணூற்று ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 96th Dashakam audio mp3

நாராயணீயம் தொண்ணூற்று ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 96th Dashakam audio mp3
Have given the 96th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये षण्णवतितमं दशकम्

त्वं हि ब्रह्मैव साक्षात् परं, उरुमहिमन्, अक्षराणामकार:,
तारो मन्त्रेषु, राज्ञां मनुरसि, मुनिषु त्वं भृगु:, नारदोऽपि ।
प्रह्लादो दानवानां, पशुषु च सुरभि:, पक्षिणां वैनतेय:,
नागानां, अस्यनन्त:, सुरसरिदपि च स्रोतसां, विश्वमूर्ते ॥ १ ॥

ब्रह्मण्यानां बलिस्त्वं, क्रतुषु च जपयज्ञोऽसि, वीरेषु पार्थ:,
भक्तानामुद्धवस्त्वं, बलमसि बलिनां, धाम तेजस्विनां त्वम् ।
नास्त्यन्तस्त्वद्विभूते:, विकसदतिशयं वस्तु सर्वं त्वमेव,
त्वं जीवस्त्वं प्रधानं, यदिह भवदृते, तन्न किञ्चित्, प्रपञ्चे ॥ २ ॥

धर्मं वर्णाश्रमाणां, श्रुतिपथविहितं, त्वत्परत्वेन भक्त्या,
कुर्वन्त:, अन्तर्विरागे विकसति, शनकै: सन्त्यजन्तो, लभन्ते ।
सत्तास्फूर्तिप्रियत्वात्मकं, अखिलपदार्थेषु भिन्नेष्वभिन्नं,
निर्मूलं विश्वमूलं, परममहमिति, त्वद्विबोधं, विशुद्धम् ॥ ३ ॥

ज्ञानं कर्मापि भक्ति:, त्रितयमिह भवत्प्रापकं, तत्र तावत्,
निर्विण्णानां, अशेषे विषये, इह भवेत्, ज्ञानयोगे अधिकार: ।
सक्तानां कर्मयोग:, त्वयि हि विनिहित:, ये तु नात्यन्तसक्ता:,
नापि अत्यन्तं विरक्ता:, त्वयि च धृतरसा:, भक्तियोगो हि, अमीषाम् ॥ ४ ॥

ज्ञानं त्वद्भक्ततां वा लघु, सुकृतवशान्मर्त्यलोके, लभन्ते
तस्मात्तत्रैव जन्म, स्पृहयति भगवन्, नाकगो, नारको वा ।
आविष्टं मां तु दैवात्, भवजलनिधिपोतायिते, मर्त्यदेहे
त्वं, कृत्वा कर्णधारं, गुरुं, अनुगुणवातायित:, तारयेथा: ॥ ५ ॥

अव्यक्तं मार्गयन्त:, श्रुतिभिरपि नयै:, केवलज्ञानलुब्धा:,
क्लिश्यन्ते, अतीव, सिद्धिं बहुतरजनुषां अन्त एव, आप्नुवन्ति ।
दूरस्थ: कर्मयोगोऽपि च परं, अफले नन्वयं भक्तियोगस्तु,
आमूलादेव हृद्य:, त्वरितं, अयि भवत्प्रापको, वर्धतां मे ॥ ६ ॥

ज्ञानायैवातियत्नं मुनि:, अपवदते ब्रह्मतत्वं तु शृण्वन्,
गाढं, त्वत्पादभक्तिं शरणमयति य:, तस्य मुक्ति: कराग्रे ।
त्वद्ध्यानेऽपीह तुल्या पुन:, असुकरता, चित्तचाञ्चल्यहेतो:,
अभ्यासात्, आशु शक्यं तदपि वशयितुं, त्वत्कृपा,चारुताभ्याम् ॥ ७ ॥

निर्विण्ण: कर्ममार्गे खलु, विषमतमे त्वत्कथादौ च, गाढं
जातश्रद्धोऽपि कामान्, अयि भुवनपते, नैव शक्नोमि हातुम् ।
तद्भूयो निश्चयेन, त्वयि निहितपरा:, दोषबुद्ध्या भजन् तान्,
पुष्णीयां भक्तिमेव, त्वयि हृदयगते, मङ्क्षु, नङ्क्ष्यन्ति सङ्गा: ॥ ८ ॥

कश्चित्, क्लेशार्जितार्थक्षयविमलमति:, नुद्यमानो जनौघै:,
प्रागेवं प्राह विप्र:, न खलु, मम जन:, कालकर्मग्रहा वा ।
चेतो मे दु:खहेतु:, तदिह गुणगणं भावयत्, सर्वकारी-
त्युक्त्वा, शान्तो गतस्त्वां, मम च कुरु विभो, तादृशीं, चित्तशान्तिम् ॥ ९ ॥

ऐल: प्राक्, उर्वशीं प्रति, अतिविवशमना:, सेवमानश्चिरं तां,
गाढं, निर्विद्य भूयो, युवतिसुखमिदं, क्षुद्रमेवेति, गायन् ।
त्वद्भक्तिं प्राप्य पूर्ण:, सुखतरमचरत्, तद्वदुद्धूयसङ्गं,
भक्तोत्तंसं क्रिया मां, पवनपुरपते, हन्त मे, रुन्धि रोगान् ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये षण्णवतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 96th dashakam.

Series Navigation<< நாராயணீயம் தொண்ணூற்று ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 95th Dashakam audio mp3நாராயணீயம் தொண்ணூற்று ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 97th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.