Categories
Narayaneeyam

நாராயணீயம் தொண்ணூற்று ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 97th Dashakam audio mp3

நாராயணீயம் தொண்ணூற்று ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 97th Dashakam audio mp3
Have given the 97th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये सप्तनवतितमं दशकम्

त्रैगुण्याद्भिन्नरूपं भवति हि भुवने, हीनमध्योत्तमं यत्,
ज्ञानं श्रद्धा च कर्ता, वसतिरपि सुखं, कर्म च, आहारभेदा: ।
त्वत्क्षेत्रत्वन्निषेवादि तु, यदिह पुन:, त्वत्परं तत्तु सर्वं,
प्राहुर्नैर्गुण्यनिष्ठं, तदनुभजनतो, मङ्क्षु, सिद्धो भवेयम् ॥ १ ॥

त्वय्येव न्यस्तचित्त:, सुखमयि विचरन्, सर्वचेष्टास्त्वदर्थं,
त्वद्भक्तै: सेव्यमानान्, अपि चरितचरान्, आश्रयन्, पुण्यदेशान् ।
दस्यौ विप्रे मृगादिष्वपि च, सममति:, मुच्यमानावमान-
स्पर्धासूयादिदोष:, सततमखिलभूतेषु, संपूजये त्वाम् ॥ २ ॥

त्वद्भावो यावदेषु स्फुरति, न विशदं तावदेवं हि, उपास्तिं
कुर्वन्, ऐकात्म्यबोधे झटिति विकसति, त्वन्मयोऽहं चरेयम् ।
त्वद्धर्मस्यास्य तावत्, किमपि न भगवन्, प्रस्तुतस्य प्रणाश:,
तस्मात्, सर्वात्मनैव प्रदिश मम विभो, भक्तिमार्गं, मनोज्ञम् ॥ ३ ॥

तं चैनं भक्तियोगं द्रढयितुं, अयि मे साध्यं, आरोग्यमायु:,
दिष्ट्या तत्रापि सेव्यं, तव चरणमहो, भेषजायेव, दुग्धम् ।
मार्कण्डेयो हि पूर्वं, गणकनिगदितद्वादशाब्दायु:, उच्चै:
सेवित्वा वत्सरं त्वां, तव भटनिवहै:, द्रावयामास, मृत्युम् ॥ ४ ॥

मार्कण्डेयश्चिरायु:, स खलु पुनरपि, त्वत्पर:, पुष्पभद्रा-
तीरे, निन्ये तपस्यन्, अतुलसुखरति:, षट् तु मन्वन्तराणि ।
देवेन्द्र: सप्तमस्तं, सुरयुवतिमरुन्मन्मथै:, मोहयिष्यन्,
योगोष्मप्लुष्यमाणै:, न तु पुनरशकत्, त्वज्जनं, निर्जयेत् क: ॥ ५ ॥

प्रीत्या नारायणाख्यस्त्वमथ नरसख:, प्राप्तवानस्य पार्श्वं,
तुष्ट्या तोष्टूयमान:, स तु विविधवरै:, लोभितो, नानुमेने ।
द्रष्टुं माय़ां त्वदीयां किल पुन:, अवृणोत्, भक्तितृप्तान्तरात्मा,
मायादु:खानभिज्ञ:, तदपि मृगयते, नूनं, आश्चर्यहेतो: ॥ ६ ॥

याते त्वय्याशु वाताकुल,जलदगलत्तोयपूर्णाति,घूर्णत्-
सप्तार्णोराशिमग्ने, जगति स तु जले, सम्भ्रमन्, वर्षकोटी: ।
दीन: प्रैक्षिष्ट दूरे, वटदलशयनं कञ्चित्, आश्चर्यबालं,
त्वामेव श्यामलाङ्गं, वदनसरसिजन्यस्त,पादाङ्गुलीकम् ॥ ७ ॥

दृष्ट्वा त्वां हृष्टरोमा त्वरितं, अभिगत:, स्प्रष्टुकामो मुनीन्द्र:,
श्वासेनान्तर्निविष्ट: पुनरिह सकलं, दृष्टवान् विष्टपौघम् ।
भूयोऽपि श्वासवातै:, बहिरनुपतितो वीक्षितस्त्वत्कटाक्षै:,
मोदात्, आश्लेष्टुकाम: त्वयि पिहिततनौ, स्वाश्रमे, प्राग्वदासीत् ॥ ८ ॥

गौर्या सार्धं तदग्रे, पुरभिदथ गत:, त्वत्प्रियप्रेक्षणार्थी,
सिद्धानेवास्य दत्वा, स्वयमयं, अजरामृत्युतादीन्, गतोऽभूत् ।
एवं त्वत्सेवयैव, स्मररिपुरपि स प्रीयते, येन तस्मात्,
मूर्तित्रय्यात्मकस्त्वं, ननु, सकलनियन्तेति, सुव्यक्तमासीत् ॥ ९ ॥

त्र्यंशेस्मिन् सत्यलोके, विधिहरिपुरभिन्मन्दिराणि, ऊर्ध्वमूर्ध्वं,
तेभ्योपि, ऊर्ध्वं तु, मायाविकृतिविरहितो भाति, वैकुण्ठलोक: ।
तत्र त्वं कारणाम्भसि, अपि पशुपकुले, शुद्धसत्त्वैकरूपी,
सच्चित्ब्रह्माद्वयात्मा, पवनपुरपते, पाहि मां, सर्वरोगात् ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये सप्तनवतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 97th dashakam.

Series Navigation<< நாராயணீயம் தொண்ணூற்று ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 96th Dashakam audio mp3நாராயணீயம் தொண்ணூற்று எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 98th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.