Categories
Narayaneeyam

நாராயணீயம் தொண்ணூற்று எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 98th Dashakam audio mp3

நாராயணீயம் தொண்ணூற்று எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 98th Dashakam audio mp3
Have given the 98th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये अष्टनवतितमं दशकम्

यस्मिन्नेतद्विभातं, यत इदमभवत्, येन चेदं य एतत्,
योऽस्मादुत्तीर्णरूप: खलु सकलमिदं, भासितं, यस्य भासा ।
यो वाचां दूरदूरे पुनरपि, मनसां, यस्य देवा मुनीन्द्रा:,
नो विद्युस्तत्वरूपं, किमु पुनरपरे, कृष्ण, तस्मै नमस्ते ॥ १ ॥

जन्माथो कर्म नाम स्फुटमिह, गुणदोषादिकं वा, न यस्मिन्,
लोकानां, ऊतये य:, स्वयमनुभजते, तानि मायानुसारी ।
विभ्रत् शक्ती:, अरूपोऽपि च, बहुतररूपोऽवभाति, अद्भुतात्मा,
तस्मै कैवल्यधाम्ने, पररसपरिपूर्णाय, विष्णो, नमस्ते ॥ २ ॥

नो तिर्यञ्चं न मर्त्यं न च सुरमसुरं, न स्त्रियं नो पुमांसं,
न द्रव्यं, कर्म जातिं, गुणमपि सदसद्वापि ते, रूपमाहु: ।
शिष्टं यत् स्यान्निषेधे सति, निगमशतैर्लक्षणावृत्तितस्तत्,
कृच्छ्रेणावेद्यमानं, परमसुखमयं भाति, तस्मै नमस्ते ॥ ३ ॥

मायायां बिम्बितस्त्वं सृजसि, महदहङ्कारतन्मात्रभेदै:,
भूतग्रामेन्द्रियाद्यैरपि, सकलजगत्स्वप्नसङ्कल्पकल्पम् ।
भूय: संहृत्य सर्वं, कमठ इव, पदानि, आत्मना कालशक्त्या,
गम्भीरे, जायमाने तमसि, वितिमिरो भासि, तस्मै नमस्ते ॥ ४ ॥

शब्दब्रह्मेति कर्मेति, अणुरिति भगवन्, काल इत्यालपन्ति,
त्वामेकं विश्वहेतुं, सकलमयतया, सर्वथा कल्प्यमानम् ।
वेदान्तैर्यत्तु गीतं, पुरुष,परचिदात्माभिधं, तत्तु तत्वं,
प्रेक्षामात्रेण, मूलप्रकृतिविकृतिकृत्, कृष्ण, तस्मै नमस्ते ॥ ५ ॥

सत्वेनासत्तया वा न च खलु, सदसत्वेन निर्वाच्यरूपा,
धत्ते यासौ अविद्या, गुणफणिमतिवत्, विश्वदृश्यावभासम् ।
विद्यात्वं सैव याता, श्रुतिवचनलवै:, यत्कृपास्यन्दलाभे,
संसारारण्यसद्यस्त्रुटनपरशुतां, एति तस्मै नमस्ते ॥ ६ ॥

भूषासु स्वर्णवद्वा जगति, घटशरावादिके, मृत्तिकावत्,
तत्वे सञ्चिन्त्यमाने स्फुरति तत्, अधुनापि, अद्वितीयं वपुस्ते ।
स्वप्नद्रष्टु: प्रबोधे, तिमिरलयविधौ, जीर्णरज्जोश्च यद्वत्,
विद्यालाभे तथैव, स्फुटमपि विकसेत्, कृष्ण, तस्मै नमस्ते ॥ ७ ॥

यद्भीत्या, उदेति सूर्य:, दहति च दहनो वाति वायुस्तथान्ये,
यद्भीता: पद्मजाद्या: पुन:, उचितबलीन् आहरन्तेऽनुकालम् ।
येनैव, आरोपिता: प्राक्, निजपदमपि ते च्यावितारश्च पश्चात्,
तस्मै, विश्वं नियन्त्रे, वयमपि भवते, कृष्ण, कुर्म: प्रणामम् ॥ ८ ॥

त्रैलोक्यं भावयन्तं, त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं,
त्रीशानामैक्यरूपं, त्रिभिरपि निगमैर्गीयमान,स्वरूपम् ।
तिस्रोवस्था विदन्तं, त्रियुगजनिजुषं त्रिक्रमाक्रान्तविश्वं,
त्रैकाल्ये भेदहीनं, त्रिभिरहमनिशं, योगभेदै:, भजे त्वाम् ॥ ९ ॥

सत्यं शुद्धं विबुद्धं, जयति तव वपु:, नित्यमुक्तं निरीहं,
निर्द्वन्द्वं निर्विकारं, निखिलगुणगणव्यञ्जनाधार,भूतम् ।
निर्मूलं निर्मलं तत्, निरवधिमहिमोल्लासि, निर्लीनं, अन्त-
र्निस्सङ्गानां मुनीनां, निरुपमपरमानन्दसान्द्रप्रकाशम् ॥ १० ॥

दुर्वारं द्वादशारं, त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं,
सम्भ्राम्यत् क्रूरवेगं, क्षणमनु, जगदाच्छिद्य, सन्धावमानम् ।
चक्रं ते, कालरूपं, व्यथयतु न तु मां, त्वत्पदैकावलम्बं,
विष्णो कारुण्यसिन्धो, पवनपुरपते पाहि, सर्वामयौघात् ॥ ११ ॥

ॐ तत्सदिति श्रीमन्नारायणीये अष्टनवतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 97th dashakam.

Series Navigation<< நாராயணீயம் தொண்ணூற்று ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 97th Dashakam audio mp3நாராயணீயம் தொண்ணூற்று ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 99th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.