Categories
Narayaneeyam

நாராயணீயம் தொண்ணூற்று ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 99th Dashakam audio mp3

நாராயணீயம் தொண்ணூற்று ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 99th Dashakam audio mp3
Have given the 99th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये एकोनशततमं दशकम्

विष्णोर्वीर्याणि को वा कथयतु, धरणे: कश्च रेणून्मिमीते,
यस्यैवाङ्घ्रित्रयेण, त्रिजगदभिमितं, मोदते पूर्णसम्पत् ।
योसौ विश्वानि धत्ते प्रियमिह परमं धाम, तस्याभियायां,
तद्भक्ता:, यत्र माद्यन्ति, अमृतरसमरन्दस्य यत्र प्रवाह: ॥ १ ॥

आद्याय, अशेषकर्त्रे प्रतिनिमिषनवीनाय, भर्त्रे विभूते:,
भक्तात्मा विष्णवे य:- प्रदिशति, हविरादीनि, यज्ञार्चनादौ ।
कृष्णाद्यं जन्म यो वा, महदिह महतो वर्णयेत्सोऽयमेव
प्रीत:, पूर्णो यशोभिस्त्वरितमभिसरेत्, प्राप्यमन्ते, पदं ते ॥ २ ॥

हे स्तोतार:- कवीन्द्रा:, तमिह खलु यथा, चेतयध्वे तथैव,
व्यक्तं, वेदस्य सारं, प्रणुवत, जननोपात्तलीला,कथाभि: ।
जानन्तश्चास्य नामानि, अखिलसुखकराणीति, सङ्कीर्तयध्वं,
हे विष्णो, कीर्तनाद्यै:, तव खलु महतस्तत्वबोधं, भजेयम् ॥ ३ ॥

विष्णो: कर्माणि सम्पश्यत मनसि, सदा, यै:, स धर्मानबध्नात्,
यानि, इन्द्रस्यैष भृत्य:, प्रियसख इव च व्यातनोत्, क्षेमकारी ।
वीक्षन्ते योगसिद्धा:, परपदमनिशं यस्य सम्यक्प्रकाशं,
विप्रेन्द्रा जागरूका:- कृतबहुनुतय:, यच्च निर्भासयन्ते ॥ ४ ॥

नो जातो जायमानोऽपि च, समधिगतस्त्वन्महिम्नोऽवसानं,
देव श्रेयांसि विद्वान्, प्रतिमुहुरपि ते नाम, शंसामि विष्णो ।
तं त्वां संस्तौमि, नानाविध,नुतिवचनै:, अस्य लोकत्रयस्यापि,
ऊर्ध्वं विभ्राजमाने, विरचितवसतिं, तत्र वैकुण्ठलोके ॥ ५ ॥

आप: सृष्ट्यादिजन्या: प्रथमं, अयि विभो गर्भदेशे दधुस्त्वां,
यत्र, त्वय्येव जीवा:, जलशयन हरे, सङ्गता:, ऐक्यमापन् ।
तस्याजस्य प्रभो, ते विनिहितमभवत् पद्ममेकं हि, नाभौ,
दिक्पत्रं यत् किलाहु:, कनकधरणिभृत् कर्णिकं, लोकरूपम् ॥ ६ ॥

हे लोका:, विष्णुरेतद्भुवनमजनयत्, तन्न जानीथ यूयं,
युष्माकं हि अन्तरस्थं, किमपि तत्, अपरं विद्यते, विष्णुरूपम् ।
नीहारप्रख्यमायापरिवृतमनसो, मोहिता नामरूपै:,
प्राणप्रीत्येकतृप्ता:, चरथ मखपरा:, हन्त नेच्छा, मुकुन्दे ॥ ७ ॥

मूर्ध्नामक्ष्णां पदानां, वहसि खलु सहस्राणि सम्पूर्य विश्वं,
तत्प्रोत्क्रम्यापि तिष्ठन्, परिमितविवरे भासि, चित्तान्तरेऽपि ।
भूतं भव्यं च सर्वं, परपुरुष भवान् किञ्च, देहेन्द्रियादिषु,
आविष्टोहि, उद्गतत्वात्, अमृतसुखरसं चानुभुङ्क्षे, त्वमेव ॥ ८ ॥

यत्तु त्रैलोक्यरूपं दधत्, अपि च ततो निर्गतोऽनन्तशुद्ध-
ज्ञानात्मा, वर्तसे त्वं तव खलु महिमा, सोऽपि तावान् किमन्यत् ।
स्तोकस्ते भाग एव अखिलभुवनतया दृश्यते, त्र्यंशकल्पं,
भूयिष्ठं, सान्द्रमोदात्मकं, उपरि ततो भाति, तस्मै नमस्ते ॥ ९ ॥

अव्यक्तं ते स्वरूपं, दुरधिगमतमं, तत्तु शुद्धैकसत्वं,
व्यक्तं चाप्येतदेव स्फुटं, अमृतरसाम्भोधि,कल्लोलतुल्यम् ।
सर्वोत्कृष्टामभीष्टां, तदिह गुणरसेनैव, चित्तं हरन्तीं
मूर्तिं ते, संश्रयेऽहं, पवनपुरपते, पाहि मां, कृष्ण रोगात् ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये एकोनशततमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 99th dashakam.

Series Navigation<< நாராயணீயம் தொண்ணூற்று எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 98th Dashakam audio mp3நாராயணீயம் நூறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 100th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.