Categories
Narayaneeyam

நாராயணீயம் நூறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 100th Dashakam audio mp3

நாராயணீயம் நூறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 100th Dashakam audio mp3
Have given the 100th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये शततमं दशकम्

अग्रे पश्यामि तेजो निबिडतर,कलायावली,लोभनीयं,
पीयूषाप्लावितोऽहं, तदनु तदुदरे, दिव्यकैशोरवेषम् ।
तारुण्यारम्भरम्यं, परमसुखरसास्वाद,रोमाञ्चिताङ्गै:,
आवीतं, नारदाद्यै:, विलसदुपनिषद्-सुन्दरी,मण्डलैश्च ॥ १ ॥

नीलाभं, कुञ्चिताग्रं घनं, अमलतरं संयतं, चारुभङ्ग्या,
रत्नोत्तंसाभिरामं, वलयितं, उदयच्चन्द्रकै:, पिञ्छजालै: ।
मन्दारस्रङ्निवीतं तव, पृथुकबरीभारं, आलोकयेऽहं,
स्निग्धश्वेतोर्ध्वपुण्ड्राम्, अपि च सुललितां, फालबालेन्दुवीथीम् ॥ २ ॥

हृद्यं, पूर्णानुकम्पार्णव,मृदुलहरीचञ्चलभ्रू,विलासै:,
आनीलस्निग्धपक्ष्मावलि,परिलसितं, नेत्रयुग्मं, विभो ते ।
सान्द्रच्छायं, विशालारुण,कमलदलाकारं, आमुग्धतारं,
कारुण्यालोकलीला,शिशिरितभुवनं, क्षिप्यतां, मय्यनाथे ॥ ३ ॥

उत्तुङ्गोल्लासिनासं, हरिमणिमुकुरप्रोल्लसद्गण्ड,पाली-
व्यालोलत्कर्णपाशाञ्चित,मकरमणी कुण्डलद्वन्द्व, दीप्रम् ।
उन्मीलद्दन्तपङ्क्ति,स्फुरदरुणतरच्छाय,बिम्बाधरान्त-
प्रीति,प्रस्यन्दि,मन्दस्मितमधुरतरं, वक्त्रं, उद्भासतां मे ॥ ४ ॥

बाहुद्वन्द्वेन, रत्नोज्ज्वलवलयभृता, शोणपाणिप्रवालेन,
उपात्तां, वेणुनालीं, प्रसृतनख,मयूखाङ्गुली,सङ्गशाराम् ।
कृत्वा वक्त्रारविन्दे, सुमधुरविकसद्रागं, उद्भाव्यमानै:,
शब्दब्रह्मामृतैस्त्वं, शिशिरितभुवनै:, सिञ्च, मे कर्णवीथीम् ॥ ५ ॥

उत्सर्पत्कौस्तुभश्रीततिभि:, अरुणितं कोमलं, कण्ठदेशं,
वक्ष:, श्रीवत्सरम्यं, तरलतर,समुद्दीप्र,हारप्रतानम् ।
नानावर्णप्रसूनावलिकिसलयिनीं, वन्यमालां, विलोल-
ल्लोलम्बां, लम्बमानां, उरसि तव तथा, भावये, रत्नमालाम् ॥ ६ ॥

अङ्गे पञ्चाङ्गरागै:, अतिशयविकसत्सौरभाकृष्टलोकं,
लीनानेकत्रिलोकीविततिं, अपि कृशां, बिभ्रतं, मध्यवल्लीम् ।
शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं, पीतचेलं दधानं,
ध्यायाम:, दीप्तरश्मिस्फुटमणिरशना,किङ्किणी,मण्डितं त्वाम् ॥ ७ ॥

ऊरू, चारू, तवोरू, घनमसृणरुचौ, चित्तचोरौ रमाया:,
विश्वक्षोभं विशङ्क्य, ध्रुवं, अनिशमुभौ, पीतचेलावृताङ्गौ ।
आनम्राणां, पुरस्तात्, न्यसनधृत,समस्तार्थपालीसमुद्ग-
च्छायं, जानुद्वयं च, क्रमपृथुलमनोज्ञे च, जङ्घे, निषेवे ॥ ८ ॥

मञ्जीरं, मञ्जुनादैरिव, पदभजनं श्रेय:, इत्यालपन्तं,
पादाग्रं, भ्रान्तिमज्जत्, प्रणतजन,मनोमन्दरोद्धार,कूर्मम् ।
उत्तुङ्गाताम्रराजन्नखर,हिमकरज्योत्स्नया च, आश्रितानां,
सन्तापध्वान्तहन्त्रीं, ततिमनुकलये, मङ्गलां, अङ्गुलीनाम् ॥ ९ ॥

योगीन्द्राणां त्वदङ्गेषु, अधिकसुमधुरं, मुक्तिभाजां निवासो,
भक्तानां कामवर्षद्युतरुकिसलयं, नाथ, ते पादमूलम् ।
नित्यं चित्तस्थितं मे, पवनपुरपते कृष्ण, कारुण्यसिन्धो,
हृत्वा निश्शेषतापान्, प्रदिशतु, परमानन्दसन्दोहलक्ष्मीम् ॥ १० ॥

अज्ञात्वा, ते महत्वं, यदिह निगदितं, विश्वनाथ, क्षमेथा:,
स्तोत्रं चैतत्, सहस्रोत्तरं, अधिकतरं, त्वत्प्रसादाय भूयात् ।
द्वेधा, नारायणीयं, श्रुतिषु च जनुषा, स्तुत्यतावर्णनेन,
स्फीतं, लीलावतारै: इदं, इह कुरुतां, आयुरारोग्यसौख्यम् ॥ ११ ॥

ॐ तत्सदिति श्रीमन्नारायणीये शततमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

सान्द्रानन्दावबोधात्मकं, अनुपमितं, कालदेशावधिभ्यां,
निर्मुक्तं नित्यमुक्तं, निगमशतसहस्रेण, निर्भास्यमानम् ।
अस्पष्टं, दृष्टमात्रे पुन:, उरुपुरुषार्थात्मकं, ब्रह्म तत्वं,
तत्तावत्, भाति साक्षात्, गुरुपवनपुरे, हन्त, भाग्यं जनानाम् ॥ १ ॥

If you prefer regular lyrics it can be found here – Narayaneeyam 100th dashakam.

Series Navigation<< நாராயணீயம் தொண்ணூற்று ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 99th Dashakam audio mp3

2 replies on “நாராயணீயம் நூறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 100th Dashakam audio mp3”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.