Categories
Narayaneeyam

நாராயணீயம் எண்பத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 87th Dashakam audio mp3

நாராயணீயம் எண்பத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 87th Dashakam audio mp3
Have given the 87th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये सप्ताशीतितमं दशकम्

कुचेलनामा, भवत: सतीर्थ्यतां, गत: स सान्दीपनिमन्दिरे द्विज: ।
त्वदेकरागेण, धनादिनिस्स्पृह:, दिनानि निन्ये, प्रशमी गृहाश्रमी ॥ १ ॥

समानशीलाऽपि, तदीयवल्लभा, तथैव, नो चित्तजयं, समेयुषी ।
कदाचिदूचे बत, वृत्तिलब्धये, रमापति:, किं न सखा निषेव्यते ॥ २ ॥

इतीरितोऽयं, प्रियया क्षुधार्तया, जुगुप्समानोऽपि, धने मदावहे ।
तदा, त्वदालोकनकौतुकाद्ययौ, वहन् पटान्ते, पृथुकान् उपायनम् ॥ ३ ॥

गतोऽयं, आश्चर्यमयीं भवत्पुरीं, गृहेषु, शैब्याभवनं, समेयिवान् ।
प्रविश्य, वैकुण्ठमिवाप निर्वृतिं, तवातिसम्भावनया तु, किं पुन: ॥ ४ ॥

प्रपूजितं तं, प्रियया च वीजितं, करे गृहीत्वाऽकथय: पुराकृतम् ।
यदिन्धनार्थं, गुरुदारचोदितै:, अपर्तुवर्षं, तत्, अमर्षि कानने ॥ ५ ॥

त्रपाजुषोऽस्मात्, पृथुकं बलादथ, प्रगृह्य मुष्टौ, सकृदाशिते त्वया ।
कृतं कृतं ननु, इयतेति संभ्रमात्, रमा किलोपेत्य, करं रुरोध ते ॥ ६ ॥

भक्तेषु भक्तेन, स मानितस्त्वया, पुरीं वसन्, एकनिशां महासुखम् ।
बत, अपरेद्यु:, द्रविणं विना ययौ, विचित्ररूप:, तव खलु अनुग्रह: ॥ ७ ॥

यदि ह्ययाचिष्यं, अदास्यदच्युत:, वदामि भार्यां, किमिति व्रजन्नसौ ।
त्वदुक्तिलीलास्मित, मग्नधी: पुन:, क्रमादपश्यन्, मणिदीप्रमालयम् ॥ ८ ॥

किं मार्गविभ्रंश:, इति भ्रमन् क्षणं, गृहं प्रविष्ट:, स ददर्श वल्लभाम् ।
सखीपरीतां, मणिहेमभूषितां, बुबोध च, त्वत्करुणां, महाद्भुताम् ॥ ९ ॥

स रत्नशालासु, वसन्नपि स्वयं, समुन्नमद्भक्तिभर:, अमृतं ययौ ।
त्वं, एवमापूरितभक्तवाञ्छित:, मरुत्पुराधीश, हरस्व मे गदान् ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये सप्ताशीतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

குசேலோபாக்யானம்

If you prefer regular lyrics it can be found here – Narayaneeyam 87th dashakam.

Series Navigation<< நாராயணீயம் எண்பத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 86th Dashakam audio mp3நாராயணீயம் எண்பத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 88th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.