Categories
Narayaneeyam

நாராயணீயம் எண்பத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 86th Dashakam audio mp3

நாராயணீயம் எண்பத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 86th Dashakam audio mp3
Have given the 86th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये षडशीतितमं दशकम्

साल्वो भैष्मीविवाहे, यदुबलविजितश्चन्द्रचूडाद्विमानं,
विन्दन् सौभं, स मायी, त्वयि वसति कुरून, त्वत्पुरीमभ्यभाङ्क्षीत् ।
प्रद्युम्नस्तं निरुन्धन्, निखिलयदुभटै:, न्यग्रहीदुग्रवीर्यं,
तस्यामात्यं द्युमन्तं, व्यजनि च समर:, सप्तविंशत्यहान्तम् ॥ १ ॥

तावत्त्वं रामशाली, त्वरितमुपगत: खण्डितप्रायसैन्यं,
सौभेशं तं, न्यरुन्धा:, स च किल गदया, शार्ङ्गं, अभ्रंशयत्ते ।
मायातातं, व्यहिंसीत्, अपि तव पुरत:, तत्वयापि, क्षणार्धं,
न अज्ञायि, इत्याहुरेके, तत्, इदमवमतं, व्यास एव, न्यषेधीत् ॥ २ ॥

क्षिप्त्वा सौभं, गदाचूर्णितं, उदकनिधौ मङ्क्षु, साल्वेऽपि चक्रेण,
उत्कृत्ते दन्तवक्त्र: प्रसभं, अभिपतन्, अभ्यमुञ्चत्, गदां ते ।
कौमोदक्या हतोऽसावपि, सुकृतनिधिश्चैद्यवत्प्रापदैक्यं,
सर्वेषां, एष पूर्वं त्वयि धृतमनसां, मोक्षणार्थोऽवतार: ॥ ३ ॥

त्वय्यायातेऽथ जाते किल, कुरुसदसि, द्यूतके संयताया:,
क्रन्दन्त्या याज्ञसेन्या:, सकरुणं अकृथा:, चेलमालां अनन्ताम् ।
अन्नान्तप्राप्त,शर्वांशजमुनि,चकित-द्रौपदीचिन्तितोऽथ,
प्राप्त:, शाकान्नमश्नन्, मुनिगणमकृथा:, तृप्तिमन्तं वनान्ते ॥ ४ ॥

युद्धोद्योगेऽथ मन्त्रे, मिलति सति वृत: फल्गुनेन, त्वमेक:
कौरव्ये दत्तसैन्य:, करिपुरमगमो दौत्यकृत्, पाण्डवार्थम् ।
भीष्मद्रोणादिमान्ये, तव खलु वचने, धिक्कृते कौरवेण,
व्यावृण्वन् विश्वरूपं, मुनिसदसि, पुरीं क्षोभयित्वा, आगतोऽभू: ॥ ५ ॥

जिष्णो:, त्वं कृष्ण, सूत: खलु, समरमुखे, बन्धुघाते दयालुं,
खिन्नं तं वीक्ष्य वीरं, किमिदमयि सखे, नित्य एकोऽयं, आत्मा ।
को वध्य: कोऽत्र हन्ता तदिह, वधभियं प्रोज्झ्य, मय्यर्पितात्मा,
धर्म्यं युद्धं चरेति, प्रकृतिमनयथा:, दर्शयन् विश्वरूपम् ॥ ६ ॥

भक्तोत्तंसेऽथ भीष्मे, तव धरणिभरक्षेपकृत्यैकसक्ते,
नित्यं नित्यं विभिन्दति, अयुतसमधिकं, प्राप्तसादे च, पार्थे ।
निश्शस्त्रत्वप्रतिज्ञां विजहत्, अरिवरं धारयन्, क्रोधशालीव,
अधावन्, प्राञ्जलिं तं, नतशिरसं, अथो वीक्ष्य, मोदादपागा: ॥ ७ ॥

युद्धे द्रोणस्य, हस्तिस्थिररणभगदत्तेरितं, वैष्णवास्त्रं
वक्षसि, आधत्त चक्रस्थगितरविमहा:, प्रार्दयत्, सिन्धुराजम् ।
नागास्त्रे कर्णमुक्ते, क्षितिमवनमयन्, केवलं कृत्तमौलिं,
तत्रे, तत्रापि पार्थं, किमिव नहि भवान्, पाण्डवानामकार्षीत् ॥ ८ ॥

युद्धादौ तीर्थगामी, स खलु हलधरो, नैमिशक्षेत्रमृच्छन्,
अप्रत्युत्थायिसूतक्षयकृत्, अथ सुतं, तत्पदे कल्पयित्वा ।
यज्ञघ्नं वल्वलं पर्वणि, परिदलयन्, स्नाततीर्थो रणान्ते,
सम्प्राप्तो भीमदुर्योधनरणं, अशमं वीक्ष्य, यात: पुरीं ते ॥ ९ ॥

संसुप्तद्रौपदेयक्षपणहतधियं, द्रौणिमेत्य त्वदुक्त्या,
तन्मुक्तं ब्राह्ममस्त्रं समहृत, विजयो मौलिरत्नं च जह्रे ।
उच्छित्यै पाण्डवानां, पुनरपि च विशति, उत्तरागर्भं, अस्त्रे
रक्षन् अङ्गुष्ठमात्र: किल, जठरमगा:, चक्रपाणि:, विभो त्वम् ॥ १० ॥

धर्मौघं, धर्मसूनो:, अभिदधत्, अखिलं छन्दमृत्यु:, स भीष्म:,
त्वां पश्यन्, भक्तिभूम्नैव हि, सपदि ययौ, निष्कलब्रह्मभूयम् ।
संयाज्य, अथ अश्वमेधै:, त्रिभि:, अतिमहितै:, धर्मजं पूर्णकामं,
स्म्प्राप्तो, द्वारकां त्वं, पवनपुरपते, पाहि मां, सर्वरोगात् ॥ ११ ॥

ॐ तत्सदिति श्रीमन्नारायणीये षडशीतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 86th dashakam.

Series Navigation<< நாராயணீயம் எண்பத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 85th Dashakam audio mp3நாராயணீயம் எண்பத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 87th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.