Categories
Narayaneeyam

நாராயணீயம் எண்பத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 85th Dashakam audio mp3

நாராயணீயம் எண்பத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 85th Dashakam audio mp3
Have given the 85th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये पञ्चाशीतितमं दशकम्

ततो मगधभूभृता, चिरनिरोधसंक्लेशितं,
शताष्टकयुतायुतद्वितयं, ईश, भूमीभृताम् ।
अनाथशरणाय ते, कमपि पूरुषं, प्राहिणोत्,
अयाचत स:, मागधक्षपणमेव, किं भूयसा ॥ १ ॥

यियासुरभिमागधं, तदनु नारदोदीरितात्,
युधिष्ठिरमखोद्यमात्, उभयकार्यपर्याकुल: ।
विरुद्धजयिनोऽध्वरात्, उभयसिद्धि:, इति उद्धवे
शशंसुषि, निजै: समं, पुरमियेथ, यौधिष्ठिरीम् ॥ २ ॥

अशेषदयितायुते त्वयि, समागते, धर्मजो
विजित्य, सहजैर्महीं, भवदपाङ्ग, संवर्धितै: ।
श्रियं निरुपमां वहन्, अहह, भक्तदासायितं
भवन्तं, अयि मागधे प्रहितवान्, सभीमार्जुनम् ॥ ३ ॥

गिरिव्रजपुरं गता:, तदनु देव, यूयं त्रय:,
ययाच समरोत्सवं, द्विजमिषेण, तं मागधम् ।
अपूर्णसुकृतं त्वमुं, पवनजेन संग्रामयन्,
निरीक्ष्य, सह जिष्णुना, त्वमपि, राजयुद्ध्वा, स्थित: ॥ ४ ॥

अशान्तसमरोद्धतं, विटपपाटनासंज्ञया,
निपात्य जरसस्सुतं, पवनजेन, निष्पाटितम् ।
विमुच्य नृपतीन् मुदा, समनुगृह्य भक्तिं परां,
दिदेशिथ, गतस्पृहानपि च, धर्मगुप्त्यै, भुव: ॥ ५ ॥

प्रचक्रुषि युधिष्ठिरे, तदनु, राजसूयाध्वरं,
प्रसन्नभृतकीभवत्, सकलराजक,व्याकुलम् ।
त्वमपि, अयि जगत्पते, द्विजपदावनेजादिकं,
चकर्थ, किमु कथ्यते, नृपवरस्य, भाग्योन्नति: ॥ ६ ॥

तत: सवनकर्मणि प्रवरं, अग्र्यपूजाविधिं,
विचार्य, सहदेववागनुगत:, स धर्मात्मज: ।
व्यधत्त भवते मुदा सदसि, विश्वभूतात्मने,
तदा ससुरमानुषं, भुवनमेव, तृप्तिं, दधौ ॥ ७ ॥

तत: सपदि चेदिपो, मुनिनृपेषु, तिष्ठत्सु, अहो
सभाजयति, को जड:, पशुपदुर्दुरूटं, वटुम् ।
इति त्वयि, स दुर्वचोविततिं, उद्वमन्नासनात्,
उदापतत्, उदायुध:, समपतन्, अमुं पाण्डवा: ॥ ८ ॥

निवार्य निजपक्षगान्, अभिमुखस्य विद्वेषिण:,
त्वमेव जहृषे शिरो, दनुजदारिणा स्वारिणा ।
जनुस्त्रितयलब्धया, सततचिन्तया शुद्धधी:,
त्वया स परं, एकतां अधृत, योगिनां दुर्लभाम् ॥ ९ ॥

तत: सुमहिते त्वया क्रतुवरे, निरूढे जन:,
ययौ जयति धर्मजो, जयति कृष्ण:, इत्यालपन्।
खल: स तु सुयोधन:, धुतमना:, सपत्नश्रिया,
मयार्पितसभामुखे, स्थलजलभ्रमात्, अभ्रमीत् ॥ १० ॥

तदा हसितमुत्थितं, द्रुपदनन्दनाभीमयो:
अपाङ्गकलया विभो, किमपि तावत्, उज्जृम्भयन् ।
धराभरनिराकृतौ, सपदि नाम बीजं वपन्,
जनार्दन, मरुत्पुरीनिलय, पाहि मां आमयात् ॥ ११ ॥

ॐ तत्सदिति श्रीमन्नारायणीये पञ्चाशीतितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 85th dashakam.

Series Navigation<< நாராயணீயம் எண்பத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 84th Dashakam audio mp3நாராயணீயம் எண்பத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 86th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.