Categories
Narayaneeyam

நாராயணீயம் அறுபத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 69th Dashakam audio mp3

நாராயணீயம் அறுபத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 69th Dashakam audio mp3

Have given the 69th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये एकोनसप्ततितमं दशकम्

केशपाशधृत,पिञ्छिकावितति,सञ्चलन्मकरकुण्डलं,
हारजाल,वनमालिकाललितं, अङ्गरागघनसौरभम् ।
पीतचेलधृतकाञ्चिकाञ्चितं, उदञ्चदंशुमणिनूपुरं,
रासकेलिपरिभूषितं, तव हि रूपमीश, कलयामहे ॥ १ ॥

तावदेव कृतमण्डने, कलित,कञ्चुलीककुचमण्डले,
गण्डलोलमणिकुण्डले, युवतिमण्डलेऽथ, परिमण्डले ।
अन्तरा सकलसुन्दरीयुगलं, इन्दिरारमण, सञ्चरन्,
मञ्जुलां तदनु, रासकेलिं, अयि कञ्जनाभ, समुपादधा: ॥ २ ॥

वासुदेव, तव भासमानमिह, रासकेलिरससौरभं,
दूरतोऽपि खलु, नारदागदितं, आकलय्य, कुतुकाकुला ।
वेषभूषण,विलासपेशल,विलासिनीशतसमावृता,
नाकतो युगपदागता, वियति वेगतोऽथ, सुरमण्डली ॥ ३ ॥

वेणुनादकृततानदानकलगानराग,गतियोजना,
लोभनीय,मृदुपादपातकृततालमेलनमनोहरम् ।
पाणिसंक्वणितकङ्कणं च, मुहुरंसलम्बितकराम्बुजं,
श्रोणिबिम्बचलदम्बरं भजत, रासकेलिरसडम्बरम् ॥ ४ ॥

श्रद्धया, विरचितानुगानकृततारतार,मधुरस्वरे,
नर्तनेऽथ, ललिताङ्गहार,लुलिताङ्गहार,मणिभूषणे ।
सम्मदेन कृतपुष्पवर्षं,अलमुन्मिषद्दिविषदां कुलं,
चिन्मये त्वयि, निलीयमानमिव, सम्मुमोह, सवधूकुलम् ॥ ५ ॥

स्विन्नसन्नतनुवल्लरी तदनु, कापि नाम, पशुपाङ्गना,
कान्तं, अंसं, अवलम्बते स्म, भृश तान्तिभारमुकुलेक्षणा ॥
काचिदाचलितकुन्तला, नवपटीरसारघनसौरभं,
वञ्चनेन तव सञ्चुचुम्ब भुजं, अञ्चितोरुपुलकाङ्कुरम् ॥ ६ ॥

कापि गण्डभुवि, सन्निधाय निजगण्डमाकुलितकुण्डलं,
पुण्यपूरनिधि:, अन्ववाप, तव पूगचर्वितरसामृतम् ।
इन्दिराविहृतिमन्दिरं, भुवनसुन्दरं हि नटनान्तरे,
त्वामवाप्य दधुरङ्गना: किमु, न सम्मदोन्मद,दशान्तरम् ॥ ७ ॥

गानमीश विरतं क्रमेण किल, वाद्यमेलनमुपारतं,
ब्रह्मसम्मदरसाकुला: सदसि, केवलं ननृतुरङ्गना: ।
नाविदन्नपि च नीविकां, किमपि कुन्तलीमपि च, कञ्चुलीं,
ज्योतिषामपि कदम्बकं, दिवि विलम्बितं, किमपरं ब्रुवे ॥ ८ ॥

मोदसीम्नि भुवनं विलाप्य, विहृतिं समाप्य च ततो विभो,
केलिसम्मृदित,निर्मलाङ्गनव,घर्मलेश,सुभगात्मनाम् ।
मन्मथासहनचेतसां, पशुपयोषितां सुकृतचोदित:,
तावदाकलितमूर्तिरादधिथ, मारवीरपरमोत्सवान् ॥ ९ ॥

केलिभेदपरिलोलिताभि:,अतिलालिताभि:,अबलालिभि:,
स्वैरमीश ननु, सूरजापयसि, चारुनाम, विहृतिं व्यधा: ।
काननेऽपि च विसारिशीतल,किशोरमारुतमनोहरे,
सूनसौरभं, अये विलेसिथ, विलासिनीशतविमोहनम् ॥ १० ॥

कामिनीरिति हि, यामिनीषु खलु, कामनीयकनिधे भवान्,
पूर्णसम्मदरसार्णवं, कमपि, योगिगम्यमनुभावयन् ।
ब्रह्मशङ्करमुखानपीह, पशुपाङ्गनासु बहुमानयन्,
भक्तलोकगमनीयरूप, कमनीय कृष्ण, परिपाहि माम् ॥ ११ ॥

ॐ तत्सदिति श्रीमन्नारायणीये एकोनसप्ततितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 69th dashakam.

Series Navigation<< நாராயணீயம் அறுபத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 68th Dashakam audio mp3நாராயணீயம் எழுபதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 70th Dashakam audio mp3 >>

2 replies on “நாராயணீயம் அறுபத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 69th Dashakam audio mp3”

என்ன அழகான இனிமையான குரல் பதிவு! பகவானுடைய இராசக்ரீட்டை கண்
எதிரில் வந்து நிற்குமா போல்!
தொடரட்டும் தங்கள் பணி!

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.