Categories
Stothra Parayanam Audio

வால்மீகி ராமாயணத்தில் பிரம்மாவால் செய்யப்பட்ட ராம ஸ்தோத்ரம்

வால்மீகி ராமாயணத்தில் பிரம்மாவால் செய்யப்பட்ட ராம ஸ்தோத்ரம் மகிமை

வால்மீகி ராமாயணத்தில் பிரம்மாவால் செய்யப்பட்ட ராம ஸ்தோத்ரம் ஒலிப்பதிவு

भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः ।
एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् ।। ६.१२०.१४ ।।

अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव ।
लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः ।। ६.१२०.१५ ।।

शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ।
अजितः खड्गधृद्विष्णुः कृष्णश्चैव बृहद्बलः ।। ६.१२०.१६ ।।

सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्यं क्षमा दमः ।
प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः ।। ६.१२०.१७ ।।

इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् ।
शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः ।। ६.१२०.१८ ।।

सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः ।। ६.१२०.१९ ।।

त्वं त्रयाणां हि लोकानामादिकर्ता स्वयम्प्रभुः ।
सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः ।। ६.१२०.२० ।।

त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परन्तपः ।
प्रभवं निधनं वा ते न विदुः को भवानिति ।। ६.१२०.२१ ।।

दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च ।
दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ।। ६.१२०.२२ ।।

सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् ।
त्वं धारयसि भूतानि वसुधां च सपर्वताम् ।। ६.१२०.२३ ।।

अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः ।
त्रील्लोँकान् धारयन् राम देवगन्धर्वदानवान् ।। ६.१२०.२४ ।।

अहं ते हृदयं राम जिह्वा देवी सरस्वती ।
देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणा प्रभो ।। ६.१२०.२५ ।।

निमेषस्ते भवेद्रात्रिरुन्मेषस्ते भवेद्दिवा ।
संस्कारास्तेऽभवन् वेदा न तदस्ति त्वया विना ।। ६.१२०.२६ ।।

जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ।
अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः ।। ६.१२०.२७ ।।

त्वया लोकास्त्रयः क्रान्ताः पुरा स्वैर्विक्रमैस्त्रिभिः ।
महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् ।। ६.१२०.२८ ।।

सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः ।
वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ।। ६.१२०.२९ ।।

तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर ।
निहतो रावणो राम प्रहृष्टो दिवमाक्रम ।। ६.१२०.३० ।।

अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः ।
अमोघं दर्शनं राम न च मोघः स्तवस्तव ।। ६.१२०.३१ ।।

अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः ।। ६.१२०.३२ ।।

ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् ।
प्राप्नुवन्ति सदा कामानिह लोके परत्र च ।। ६.१२०.३३ ।।

इममार्षं स्तवं नित्यमितिहासं पुरातनम् ।
ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ।। ६.१२०.३४ ।।

ॐ तत्सदिति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे ब्रह्मकृतरामस्तवो नाम विंशत्युत्तरशततमः सर्गः ।। १२० ।।

One reply on “வால்மீகி ராமாயணத்தில் பிரம்மாவால் செய்யப்பட்ட ராம ஸ்தோத்ரம்”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.