Categories
Narayaneeyam

நாராயணீயம் இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 2nd Dashakam audio mp3


நாராயணீயம் இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 2nd Dashakam audio mp3

Have given the 2nd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये द्वितीयं दशकम्

सूर्यस्पर्धिकिरीटं, ऊर्ध्वतिलकप्रोद्भासि,फालान्तरं,

कारुण्याकुलनेत्रं, आर्द्रहसितोल्लासं, सुनासापुटम् ।

गण्डोद्यन्मकराभ,कुण्डलयुगं, कण्ठोज्वलत्कौस्तुभं,

त्वद्रूपं, वनमाल्यहारपटल,श्रीवत्सदीप्रं, भजे ॥ १ ॥

 

केयूराङ्गद,कङ्कणोत्तम,महारत्नाङ्गुलीयाङ्कित,-

श्रीमद्बाहुचतुष्क,सङ्गत,गदा,शङ्खारि,पङ्केरुहाम् ।

काञ्चित् काञ्चनकाञ्चि,लाञ्च्छितलसत्, पीताम्बरालम्बिनीं,

आलम्बे, विमलाम्बुजद्युतिपदां, मूर्तिं तव, आर्तिच्छिदम् ॥ २ ॥

 

यत्, त्रैलोक्यमहीयसोऽपि, महितं, सम्मोहनं मोहनात्,

कान्तं, कान्तिनिधानतोऽपि, मधुरं, माधुर्य,धुर्यादपि ।

सौन्दर्योत्तरतोऽपि, सुन्दरतरं, त्वद्रूपं, आश्चर्यतोपि,

आश्चर्यं  भुवने, न कस्य कुतुकं, पुष्णाति, विष्णो, विभो ॥ ३ ॥

 

तत्तादृक्, मधुरात्मकं तव वपु:, सम्प्राप्य सम्पन्मयी,

सा देवी, परमोत्सुका, चिरतरं, नास्ते स्वभक्तेष्वपि ।

तेनास्या:, बत कष्टं, अच्युत विभो, त्वद्रूपमानोज्ञक,-

प्रेमस्थैर्यमयात्, अचापलबलात्, चापल्यवार्ता, उदभूत् ॥ ४ ॥

 

लक्ष्मी:, तावकरामणीयक,हृतैव, इयं परेषु, अस्थिरेति,

अस्मिन्, अन्यदपि प्रमाणं, अधुना वक्ष्यामि, लक्ष्मीपते ।

ये, त्वद्ध्यानगुणानुकीर्तन,रसासक्ता हि, भक्ता जना:,

तेष्वेषा, वसति स्थिरैव, दयितप्रस्ताव,दत्तादरा ॥ ५ ॥

 

एवंभूतमनोज्ञता,नवसुधा,निष्यन्दसन्दोहनं,

त्वद्रूपं, परचिद्रसायनमयं, चेतोहरं, शृण्वताम् ।

सद्य: प्रेरयते, मतिं मदयते, रोमाञ्चयत्यङ्गकं,

व्यासिञ्चत्यपि, शीतबाष्पविसरै:, आनन्दमूर्छोद्भवै: ॥ ६ ॥

 

एवंभूततया हि, भक्त्यभिहितो योगस्स:, योगद्वयात्,

कर्मज्ञानमयात्, भृशोत्तमतर:, योगीश्वरै:, गीयते ।

सौन्दर्यैकरसात्मके, त्वयि खलु, प्रेमप्रकर्षात्मिका,

भक्ति:, निश्रममेव, विश्वपुरुषै:, लभ्या, रमावल्लभ ॥ ७ ॥

 

निष्कामं, नियतस्वधर्मचरणं, यत्, कर्मयोगाभिधं,

तद्दूरेत्यफलं, यत्, औपनिषदज्ञानोपलभ्यं, पुन: ।

तत्तु, अव्यक्ततया, सुदुर्गमतरं चित्तस्य, तस्माद्विभो,

त्वत्प्रेमात्मक,भक्तिरेव सततं, स्वादीयसी, श्रेयसी ॥ ८ ॥

 

अत्यायासकराणि, कर्मपटलानि, आचर्य निर्यन्मला:,

बोधे, भक्तिपथेऽथवापि, उचिततां, आयान्ति किं तावता ।

क्लिष्ट्वा तर्कपथे, परं तव वपु:, ब्रह्माख्यं, अन्ये पुन:,

चित्तार्द्रत्वं, ऋते विचिन्त्य बहुभि:, सिद्ध्यन्ति, जन्मान्तरै: ॥ ९ ॥

 

त्वद्भक्तिस्तु, कथारसामृतझरी,निर्मज्जनेन, स्वयं-

सिद्ध्यन्ती, विमलप्रबोधपदवीं, अक्लेशत:, तन्वती ।

सद्यस्सिद्धिकरी, जयति, अयि विभो, सैवास्तु मे, त्वत्पद-

प्रेमप्रौढिरसार्द्रता, द्रुततरं, वातालयाधीश्वर ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये द्वितीयं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 2nd dashakam.

Series Navigation<< நாராயணீயம் முதல் தசகம் ஒலிப்பதிவு; Narayaneeyam 1st Dashakam audio mp3நாராயணீயம் மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 3rd Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.