Categories
Narayaneeyam

நாராயணீயம் மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 3rd Dashakam audio mp3


நாராயணீயம் மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 3rd Dashakam audio mp3

Have given the 3rd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये तृतीयं दशकम्

पठन्तो नामानि, प्रमदभरसिन्धौ निपतिता:,

स्मरन्तो रूपं ते, वरद, कथयन्तो, गुणकथा: ।

चरन्तो, ये भक्ता:, त्वयि खलु, रमन्ते, परममून्,

अहं, धन्यान् मन्ये, समधिगत, सर्वाभिलषितान् ॥ १॥

 

गदक्लिष्टं कष्टं, तव चरणसेवारसभरेऽपि,

अनासक्तं, चित्तं भवति, बत, विष्णो, कुरु दयाम् ।

भवत्पादाम्भोज,स्मरणरसिको, नामनिवहान्,

अहं, गायं गायं, कुहचन, विवत्स्यामि, विजने ॥२॥

 

कृपा ते, जाता चेत्, किमिव, न हि लभ्यं, तनुभृतां,

मदीयक्लेशौघ,प्रशमनदशा नाम, कियती ।

न के के लोकेऽस्मिन्, अनिशमयि, शोकाभिरहिता:,

भवद्भक्ता:, मुक्ता:, सुखगतिं, असक्ता:, विदधते ॥३॥

 

मुनिप्रौढा:, रूढा:, जगति खलु, गूढात्मगतय:,

भवत्पादाम्भोज,स्मरणविरुजो, नारदमुखा: ।

चरन्ती, इश स्वैरं, सतत,परिनिर्भात,परचित्-

सदानन्दाद्वैत,प्रसरपरिमग्ना:, किमपरम् ॥४॥

 

भवद्भक्ति:, स्फीता भवतु मम, सैव, प्रशमयेत्,

अशेषक्लेशौघं, न खलु हृदि, सन्देहकणिका ।

न चेत्, व्यासस्योक्ति:, तव च वचनं, नैगमवच:,

भवेत्, मिथ्या, रथ्यापुरुषवचनप्रायं, अखिलम् ॥५॥

 

भवद्भक्तिस्तावत्, प्रमुखमधुरा, त्वद्गुणरसात्,

किमपि, आरूढा चेत्, अखिल, परिताप,प्रशमनी ।

पुनश्चान्ते स्वान्ते, विमल,परिबोधोदय,मिलन्-

महानन्दाद्वैतं, दिशति, किमत: प्रार्थ्यं, अपरम् ॥६॥

 

विधूय क्लेशान्मे, कुरु, चरणयुग्मं, धृतरसं,

भवत्क्षेत्रप्राप्तौ, करमपि च, ते पूजनविधौ ।

भवन्मूर्त्यालोके, नयनं, अथ, ते पादतुलसी,-

परिघ्राणे घ्राणं, श्रवणमपि, ते चारुचरिते ॥७॥

 

प्रभूताधि,व्याधि,प्रसभचलिते, मामकहृदि,

त्वदीयं, तद्रूपं, परमसुख, चिद्रूपं, उदियात् ।

उदञ्चद्रोमाञ्च:, गलितबहुहर्षाश्रुनिवह:

यथा, विस्मर्यासं, दुरुपशमपीडा, परिभवान् ॥८॥

 

मरुद्गेहाधीश, त्वयि खलु, पराञ्चोऽपि सुखिन:,

भवत्स्नेही, सोऽहं, सुबहु, परितप्ये च, किमिदम् ।

अकीर्तिस्ते मा भूत्, वरद, गदभारं प्रशमयन्,

भवत् भक्तोत्तंसं, झटिति कुरु मां, कंसदमन ॥९॥

 

किमुक्तैर्भूयोभि:, तव हि करुणा, यावदुदियात्,

अहं, तावत् देव, प्रहित, विविधार्त,प्रलपितः ।

पुरः क्लृप्ते पादे वरद, तव, नेष्यामि दिवसान्,

यथाशक्ति, व्यक्तं, नतिनुतिनिषेवाः, विरचयन् ॥१०॥

 

ॐ तत्सदिति श्रीमन्नारायणीये तृतीयं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 3rd dashakam.

Series Navigation<< நாராயணீயம் இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 2nd Dashakam audio mp3நாராயணீயம் நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 4th Dashakam audio mp3 >>

One reply on “நாராயணீயம் மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 3rd Dashakam audio mp3”

we are blessed to read the Narayaneeyam in Split Form. Can you please publish a hard copy of the book
I am ready to sponsor the cost of publication

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.