Categories
Narayaneeyam

நாராயணீயம் நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 4th Dashakam audio mp3


நாராயணீயம் நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 4th Dashakam audio mp3

Have given the 4th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये चतुर्थं दशकम्

कल्यतां, मम कुरुष्व तावतीं, कल्यते, भवदुपासनं यया ।

स्पष्टम्, अष्टविधयोगचर्यया, पुष्टयाशु, तव तुष्टिमाप्नुयाम् ॥ १ ॥

 

ब्रह्मचर्य, दृढतादिभिर्यमै:, आप्लवादि, नियमैश्च पाविता: ।

कुर्महे, दृढममी, सुखासनं, पङ्कजाद्यमपि वा, भवत्परा: ॥ २ ॥

 

तारं, अन्तरनुचिन्त्य सन्ततं, प्राणवायुं, अभियम्य निर्मला: ।

इन्द्रियाणि, विषयात्, अथापहृत्यास्महे, भवदुपासनोन्मुखा: ॥ ३ ॥

 

अस्फुटे वपुषि ते, प्रयत्नतो धारयेम, धिषणां, मुहुर्मुहु: ।

तेन, भक्तिरसं, अन्तरार्द्रतां, उद्वहेम, भवदङ्घ्रिचिन्तका: ॥ ४ ॥

 

विस्फुटावयवभेदसुन्दरं, त्वद्वपु: सुचिरशीलनावशात् ।

अश्रमं, मनसि चिन्तयामहे, ध्यानयोगनिरता:, त्वदाश्रयाः ॥ ५ ॥

 

ध्यायतां, सकलमूर्तिमीदृशीम्, उन्मिषन्मधुरता, हृतात्मनाम् ।

सान्द्रमोदरसरूपमान्तरं, ब्रह्मरूपं, अयि तेऽवभासते ॥ ६ ॥

 

तत्समास्वदनरूपिणीं, स्थितिं, त्वत्समाधिमयि, विश्वनायक ।

आश्रिता:, पुनरत: परिच्युतौ, आरभेमहि च, धारणादिकम् ॥ ७ ॥

 

इत्थम्, अभ्यसननिर्भरोल्लसत्, त्वत्परात्मसुख, कल्पितोत्सवा: ।

मुक्तभक्तकुलमौलितां गता:, सञ्चरेम, शुकनारदादिवत् ॥ ८ ॥

 

त्वत्समाधिविजये तु य: पुन:, मङ्क्षु, मोक्षरसिक: क्रमेण वा ।

योगवश्यं, अनिलं षडाश्रयै:, उन्नयत्यज, सुषुम्नया शनै: ॥ ९ ॥

 

लिङ्गदेहमपि, सन्त्यजन्नथो, लीयते त्वयि परे, निराग्रह: ।

ऊर्ध्वलोककुतुकी तु मूर्धत:, सार्धमेव, करणैर्निरीयते ॥ १० ॥

 

अग्निवासर, वलर्क्षपक्षगै:, उत्तरायणजुषा च दैवतै: ।

प्रापितो, रविपदं भवत्पर:, मोदवान्, ध्रुवपदान्तमीयते ॥ ११ ॥

 

आस्थितोऽथ, महरालये यदा, शेषवक्त्रदहनोष्मणार्द्यते ।

ईयते, भवदुपाश्रयस्तदा, वेधस: पदम्, अत: पुरैव वा ॥ १२ ॥

 

तत्र वा, तव पदेऽथवा वसन्, प्राकृतप्रलय, एति मुक्तताम् ।

स्वेच्छया खलु, पुराऽपिमुच्यते, संविभिद्य, जगदण्डं, ओजसा ॥ १३ ॥

 

तस्य च, क्षितिपयोमहोऽनिल, द्योमहत्प्रकृति, सप्तकावृती: ।

तत्तदात्मकतया, विशन् सुखी, याति, ते पदम्, अनावृतं विभो ॥ १४ ॥

 

अर्चिरादिगतिमीदृशीं, व्रजन्, विच्युतिं न भजते, जगत्पते ।

सच्चिदात्मका, भवत् गुणोदयान्, उच्चरन्तम्, अनिलेश, पाहि माम् ॥ १५ ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये चतुर्थं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 4th dashakam.

Series Navigation<< நாராயணீயம் மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 3rd Dashakam audio mp3நாராயணீயம் ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 5th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.