Categories
Narayaneeyam

நாராயணீயம் ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 5th Dashakam audio mp3


நாராயணீயம் ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 5th Dashakam audio mp3

Have given the 5th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये पञ्चमं दशकम्

व्यक्ताव्यक्तमिदं न किञ्चिदभवत्, प्राक्प्राकृतप्रक्षये,

मायायां, गुणसाम्यरुद्धविकृतौ, त्वय्यागतायां लयम् ।

नो मृत्युश्च तदा, अमृतं च समभूत्, नाह्नो, न रात्रे:, स्थिति:,

तत्र, एकस्त्वं, अशिष्यथा: किल, परानन्दप्रकाशात्मना ॥ १ ॥

 

काल: कर्म गुणाश्च जीवनिवहा:, विश्वं च कार्यं विभो,

चिल्लीलारतिं, एयुषि त्वयि तदा, निर्लीनतां, आययु: ।

तेषां नैव वदन्ति, असत्त्वमयि भो:, शक्त्यात्मना तिष्ठतां,

नो चेत्, किं, गगनप्रसूनसदृशां, भूयो भवेत् संभव: ॥ २ ॥

 

एवं च, द्विपरार्धकालविगतौ, ईक्षां, सिसृक्षात्मिकां,

बिभ्राणे त्वयि, चुक्षुभे, त्रिभुवनीभावाय, माया स्वयम् ।

मायात: खलु, कालशक्ति:, अखिलादृष्टं, स्वभावोऽपि च,

प्रादुर्भूय, गुणान्विकास्य, विदधु:, तस्या:, सहायक्रियाम् ॥ ३ ॥

 

मायासन्निहित:, अप्रविष्टवपुषा, साक्षीति गीतो भवान्,

भेदैस्तां, प्रतिबिम्बितो विविशिवान्, जीवोऽपि, नैवापर: ।

कालादिप्रतिबोधिताऽथ, भवता, संचोदितं च स्वयं,

माया सा खलु, बुद्धितत्त्वं असृजत्, योसौ, महान् उच्यते ॥ ४ ॥

 

तत्रासौ, त्रिगुणात्मकोऽपि च महान्, सत्त्वप्रधान: स्वयं,

जीवेऽस्मिन् खलु, निर्विकल्पं अहमिति, उद्बोधनिष्पादक: ।

चक्रेऽस्मिन्, सविकल्पबोधकं, अहन्तत्त्वं महान् खलु असौ,

सम्पुष्टं, त्रिगुणै:, तमोऽतिबहुलं, विष्णो, भवत्प्रेरणात् ॥ ५ ॥

 

सोऽहं च, त्रिगुणक्रमात्, त्रिविधतां, आसाद्य वैकारिक:,

भूयस्तैजसतामसौ, इति भवन्, आद्येन, सत्त्वात्मना ।

देवान्, इन्द्रियमानिनोऽकृत, दिशा वातार्क,पाश्यश्विन:,

वह्नीन्द्राच्युतमित्रकान्, विधुविधि,श्रीरुद्रशारीरकान् ॥ ६ ॥

 

भूमन्, मानस,बुद्ध्यहंकृतिमिलच्चित्ताख्यवृत्त्यन्वितं,

तच्चान्त:करणं विभो, तव बलात्, सत्त्वांश एवासृजत् ।

जातस्तैजसतो, दशेन्द्रियगण:, तत्तामसांशात्पुन:,

तन्मात्रं नभसो, मरुत्पुरपते, शब्दोऽजनि, त्वद्बलात् ॥ ७ ॥

 

शब्दात्, व्योम, तत: ससर्जिथ विभो, स्पर्शं ततो मारुतं,

तस्मात् रूपं, अतो महोऽथ च रसं, तोयं च, गन्धं महीम् ।

एवं माधव, पूर्वपूर्वकलनात्, आद्याद्यधर्मान्वितं,

भूतग्राममिमं, त्वमेव भगवन्, प्राकाशय:, तामसात् ॥ ८ ॥

 

एते, भूतगणा:, तथेन्द्रियगणा:, देवाश्च, जाता: पृथक्,

नो शेकु:, भुवनाण्डनिर्मितिविधौ, देवै:, अमीभिस्तदा ।

त्वं, नानाविधसूक्तिभि:, नुतगुण:, तत्वानि, अमूनि, आविशन्,

चेष्टाशक्तिं, उदीर्य, तानि घटयन्, हैरण्यं, अण्डं व्यधा: ॥ ९ ॥

 

अण्डं तत्खलु, पूर्वसृष्टसलिले, अतिष्ठत् सहस्रं समा:,

निर्भिन्दन् अकृथा:, चतुर्दशजगद्रूपं, विराडाह्वयम् ।

साहस्रै:, करपादमूर्धनिवहै:, निश्शेषजीवात्मक:,

निर्भातोऽसि, मरुत्पुराधिप, स मां त्रायस्व, सर्वामयात् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये पञ्चमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 5th dashakam.

Series Navigation<< நாராயணீயம் நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 4th Dashakam audio mp3நாராயணீயம் ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 6th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.