Categories
Narayaneeyam

நாராயணீயம் ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 6th Dashakam audio mp3

 
நாராயணீயம் ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 6th Dashakam audio mp3

Have given the 6th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये षष्ठं दशकम्

एवं, चतुर्दशजगन्मयतां गतस्य, पातालं, ईश, तव पादतलं वदन्ति ।

पादोर्ध्वदेशं, अपि देव, रसातलं ते, गुल्फद्वयं खलु, महातलं, अद्भुतात्मन् ॥ १ ॥

 

जङ्घे, तलातलमथो, सुतलं च जानू, किञ्च, ऊरुभागयुगलं, वितलातले द्वे ।

क्षोणीतलं, जघनं, अम्बरमङ्ग नाभि:, वक्षश्च शक्रनिलय:, तव, चक्रपाणे ॥ २ ॥

 

ग्रीवा मह:, तव मुखं च जन:, तपस्तुफालं, शिरस्तव, समस्तमयस्य सत्यम् ।

एवं, जगन्मयतनो, जगदाश्रितैरपि, अन्यैर्निबद्धवपुषे, भगवन्नमस्ते ॥ ३ ॥

 

त्वद्ब्रह्मरन्ध्रपदं, ईश्वर विश्वकन्द, छन्दांसि केशव, घना:, तव, केशपाशा: ।

उल्लासि, चिल्लियुगलं, द्रुहिणस्य गेहं, पक्ष्माणि रात्रिदिवसौ, सविता च नेत्रे ॥ ४ ॥

 

निश्शेषविश्वरचना च, कटाक्षमोक्ष:, कर्णौ दिश:, अश्वियुगलं, तव नासिके द्वे ।

लोभत्रपे च भगवन्, अधरोत्तरोष्ठौ, तारागणाश्च रदना:, शमनश्च दंष्ट्रा ॥ ५ ॥

 

माया विलासहसितं, श्वसितं समीर:, जिह्वा जलं, वचनमीश, शकुन्तपङ्क्ति: ।

सिद्धादय:, स्वरगणा:, मुखरन्ध्रमग्नि:, देवा:, भुजा:, स्तनयुगं तव, धर्मदेव: ॥ ६ ॥

 

पृष्ठंतु, अधर्म इह, देव, मन: सुधांशु:, अव्यक्तमेव, हृदयांबुजं, अम्बुजाक्ष ।

कुक्षि: समुद्रनिवहा:, वदनं तु सन्ध्ये, शेफ:, प्रजापतिरसौ, वृषणौ च मित्र: ॥ ७ ॥

 

श्रोणीस्थलं, मृगगणा:, पदयोर्नखास्ते, हस्त्युष्ट्रसैन्धवमुखा:, गमनं तु काल: ।

विप्रादिवर्णभवनं, वदनाब्जबाहु,चारूरुयुग्मचरणं, करुणांबुधे ते ॥ ८ ॥

 

संसारचक्रं, अयि चक्रधर, क्रियास्ते, वीर्यं महासुरगण:, अस्थिकुलानि शैला: ।

नाड्य:, सरित्समुदय:, तरवश्च रोमजीयात्, इदं वपु:, अनिर्वचनीयं, ईश ॥ ९ ॥

 

ईदृग्जगन्मयवपुस्तव, कर्मभाजां, कर्मावसानसमये, स्मरणीयमाहु: ।

तस्य अन्तरात्मवपुषे, विमलात्मने ते, वातालयाधिप, नमोऽस्तु, निरुन्धि रोगान् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये षष्ठं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 6th dashakam.

Series Navigation<< நாராயணீயம் ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 5th Dashakam audio mp3நாராயணீயம் ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 7th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.